________________
૮૪
न्यायकोशः ।
तु न शुद्धम् । तस्य पर्वतत्वातिरिक्तसौन्दर्य रूपधर्माक्रान्तत्वात् इति । २ शुद्धियुतम् ।
शुद्धा - ( लक्षणा ) [ क ] स्वशक्येन साक्षात्संबन्धः । यथा आयुर्धृतम् इत्यादौ । अत्रायं भावः । आयुर्धृतयोः सामानाधिकरण्यानुपपत्त्या आयु:पदमायुः साधनं लक्षयति । तत्र आयुः पदे शक्यजीवनकालसाधनत्वरूपसाक्षात्संबन्धस्य सत्त्वात् ( म०प्र० ४ पृ० ४१ ) इति । इयं लक्षणा जहल्लक्षणायामजहल्लक्षणायां चान्तर्भवति इति नातिरिक्ता इति ज्ञेयम् ( न्या० म० ४ पृ० १० ) । [ ख ] सादृश्याद्भिन्नः शक्यसंबन्धः । यथा आयुर्धृतम् इत्यादौ आयुःपदे लक्षणा । अत्र सादृश्यादन्यः शक्यसंबन्धश्च जन्यजनकभावः । तथा चात्र आयुः पदस्यायुर्जनके लक्षणा । तत्र आयुः पदशक्यसंबन्धो जनकत्वरूपो बोध्यः । तेन आयुर्जनकाभिन्नं घृतम् इत्यन्वयबोधः ( त० प्र० ख० ४ पृ० ३६ ) । यथा वा गङ्गायां घोषः इत्यादौ गङ्गापदे लक्षणा । अत्र सादृश्यादन्यः शक्यसंबन्धस्तु संयोग एव । स च प्रवाहप्रतियोगिकस्तीरानुयोगिकः इति विज्ञेयम् । सा च शुद्धा लक्षणा द्विविधा जहल्लक्षणा अजहल्लक्षणा चेति ( न्या० म० ४ पृ० १० ) । एते एव लक्षणे लक्षणलक्षणा उपादानलक्षणा चेत्यालंकारिकैर्व्यवह्नियेते ( काव्यप्र० उ० २ श्लो० १० ) ।
·
शुद्धाद्वैतम् — वेदान्तमत विशेषः । यथा वल्लभाचार्यमतं शुद्धाद्वैतम् । अत्र व्युत्पत्तिः शुद्धयोः कार्यकारणयोर्जीवब्रह्मणोः अद्वैतम् ऐक्यम् यत्र तत् इति । अत्र शुद्धत्वं च मायासंबन्धराहित्यम् । तच्च इतरसंबन्धानवच्छिन्न कार्यकारणादिरूपद्वित्वप्रकारकज्ञानप्रतियोगि काभाववत्त्वम् इति । केचित्तु शुद्धं च तत् अद्वैतं च इति कर्मधारय समासमङ्गीचकुः । एतन्मते भक्तिमार्गः जीवब्रह्मणोरंशांशिभावः सत्कार्यवादः अहिकुण्डलवत्परिणामवादः जगतः सत्यत्वम् आविर्भावतिरोभावौ च एतानि स्वीक्रियन्ते इति ज्ञेयम् । अत्र स यथोर्णनाभिस्तन्तुनोच्चरेद्यथाग्नेः क्षुद्रा विस्फुलिङ्गा व्युच्चरन्त्येवमेवास्मादात्मनः सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org