________________
न्यायकोशः। भूतानि व्युच्चरन्ति (बृह० उप० २।१।२० ) इति श्रुतिरंशांशिभावे प्रमाणम् । तथा प्रपञ्चः संसारश्चेति द्विविधा सृष्टिः । तत्र प्रपश्चस्य भगवत्कार्यत्वेन सत्यत्वं नित्यत्वं च । संसारस्य तु मायाकार्यत्वेन मिथ्यात्वमेव इति । एतन्मते अभावमात्रं न स्वीक्रियते इति हृदयम् । अत्र संग्रहः शुद्धाद्वैतप्रचारेण मायावादनिवर्तकान् । श्रीमदाचार्यचरणान् प्रणमामि पुनः पुनः ॥ इति । वल्लभाचार्यैः षोडश ग्रन्थाः कृताः इति
ज्ञेयम् । शुद्धिः-१ मार्जनम् नैर्मल्यसंपादनं वा । तच्च [क] भस्मादिसंयोगसमानकालीनास्पृश्यस्पर्शप्रतियोगिकयावदभावसहितभस्मादिसंयोगध्वंसः । यथा भस्मना कांस्यादिपात्रादिशुद्धिः ( त० दी० )। अत्र कालीनान्तं यावत्त्वं चाभावविशेषणम् । तादृशाभावसाहित्यं च ध्वंसविशेषणम् इति बोध्यम् । यावदभावसहितेत्यत्र साहित्यं च संबन्धविशेषनियत्रितं सामानाधिकरण्यम् ( नील० पृ० ४६-४७ ) । अत्रान्ये आहुः । भोजनादिरूपकार्याहतारूपा कांस्यादावाधेयशक्तिः पदार्थान्तरमेव शुद्धिः। यद्वा शुद्धिजनकत्वाभिमतेनाम्लादियोगेन ताम्रादौ तत्तद्रव्ये देवतासंनिधिरेव शुद्धिः । एवम् प्रतिमादौ प्रतिष्ठादिना देवतासंनिधिरेव शुद्धिः । तथा घटादावपि शुद्धप्रतिज्ञादिकमपेक्ष्य प्रतिष्ठाविधिना जयप्रयोजकीभूतो धर्मो जन्यते । अशुद्धप्रतिज्ञामपेक्ष्य भङ्गप्रयोजकः अधर्मो जन्यते इत्यागृह्यम् इति । एवम् परमाणुगतपाकजविशेषगुणात्पार्थिवकार्यविशेषो द्रष्टव्यः । जलादावदृष्टादिनिमित्तभेदात्कार्यवैजात्यमूहनीयम् ( चि०)। एवम् शुद्ध्यन्तरमपि स्वयमूह्यम् । [ख] तत्तत्समयावच्छेदेन भस्मादिसंयोगप्रतियोगिकानादिसंसर्गाभावः। स च तत्तत्समानकालीनचाण्डालादिस्पर्शादिप्रतियोगिकयावदनादिसंसर्गाभावसमानाधिकरणः ( न्या० सि० दी० पृ० २० ) । २ धर्मज्ञास्तु वैदिककर्मयोग्यत्वसंपादकसंस्कारविशेष इत्याहुः । अत्र केचिदाहुः स च संस्कारो भस्मादिप्रयोक्तृनिष्ठ एव इति । तदर्थस्तु भस्मादिसंयोगजनितः कांस्याद्युपभोक्तनिष्ठः संस्कारः इति । अत्रेदमधिकं बोध्यम् । शुद्ध्यशुद्धी शास्त्रज्ञाप्ये संस्काररूपे ।
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org