________________
न्यायकोशः।
८४१ वेदनिषिद्धाकर्ता स इत्याहुः ( चि० मङ्ग० १।१०६-१०८ )। यथा शुकोहालकादिः शिष्टः । अत्राभिधीयते । न पाणिपादचपलो न नेत्रचपलो मुनिः । न च वागङ्गचपल इति शिष्टस्य लक्षणम् ॥ ( भार० आश्व० ) इति । धर्मो नातिगतो यैस्तु वेदः सपरिबृंहितः। ते शिष्टा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणान्विताः ॥ ( कूर्म० उप० १ अ० ४ ) इति । विशेषशब्दनिष्ठस्तु शेषः शिष्टः प्रकीर्त्यते । मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः॥मनुः सप्तर्षयश्चैव लोकसंतानकारणात् । तिष्ठन्तीह च धर्मार्थं तान्शिष्टान् परिचक्षते ॥ तैः शिष्टैः स्थापितो धर्मः स्थाप्यते वै युगे युगे ॥ ( मत्स्यपु० अ० १२० ) इति । [२] कर्मज्ञाश्च वेदोक्ततत्त्वज्ञानेन वेदविहितकर्मकारी ( नील० पृ० २ ) (सि० च०)। यथा जनकश्वेतकेत्वादिः शिष्ट इत्याहुः । २ कृत
शासनः । ३ अवशिष्टः पदार्थः।। शिष्टाचारः-सद्व्यवहारः । यथा मङ्गलं वेदबोधितकर्तव्यताकम् अलौकिका
विगीतशिष्टाचारविषयत्वात् • दर्शादिवत् (त० दी० १) इत्यादौ शिष्टाचारशब्दस्यार्थः । अत्राहुः । शिष्टाचारत्वं च शिष्टेन परलोकानुकूलतया क्रियमाणत्वम् । प्रतिबन्धकदुरितवारणमुद्दिश्य क्रियमाणत्वं वा । अश्वमेधकारीर्यादौ व्याप्तिः सुप्रसिद्धा इति । अथ वा यत्कार्य प्रति यस्य कारणत्वमन्वयव्यतिरेकोपजीवनेन न गृह्यते तत्कार्यमुद्दिश्य शिष्टेन तस्य क्रियमाणत्वम् (न्या० सि० दी० पृ० २) इति । अत्रेदं बोध्यम् । आचारश्चैव साधूनाम् (२।६) इति मनुना आचारस्य धर्मे प्रामाण्यमुक्तम् । स च वेदाविरुद्ध एव प्रमाणम् । श्रुतिस्मृत्योभिन्नविषयत्वे सदाचारेण तत्र धर्मो निर्णेयः । श्रुतिविरोधे स्मृतेरप्रामाण्यवत् स्मृतिविरोधे सदाचारस्य न धर्मनिर्णायकत्वम् । तेन दाक्षिणात्यानां मातुलकन्यापरिणयस्य शिष्टैराचर्यमाणत्वेपि न प्रामाण्यम् । तदेतत् विरोधे त्वनपेक्षं स्यात् असति ह्यनुमानम् (जैमिनि० अ० १ पा० ३ सू० ३) इत्यनेन निर्णीतम् । वसिष्ठेनापि तदभावे शिष्टाचारः प्रमाणम् इत्युक्तम् । ततश्च शिष्टाचारेण मूलस्मृतिरनुमीयते । यथा होलिकाद्याचारात् । ततः स्मृत्या १११ न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org