________________
न्यायकोशः। शिष्या अपि मङ्गलं कुर्युः इति शिष्यशिक्षायै निबन्धं कुर्वन् (दि० १ पृ० १) इत्यादौ शिक्षाशब्दस्यार्थः । [ख] प्रवृत्तिप्रयोजकेष्टसाधनताज्ञानम्। यथा शिष्यशिक्षार्थं मङ्गलं निबध्नाति इत्यादौ शिक्षाशब्दस्यार्थः । २ [क] स्वस्य विद्याप्राप्त्यनुकूलव्यापारः ( विद्योपादानम् ) । यथा अशिक्षतास्त्रं पितुरेव मत्रवत् ( रघु० ३।३१) इत्यादौ। [ख] अध्यापनम् । यथा शिक्षक इत्यादौ। ३ वैदिकास्तु वर्णस्वराजुच्चारणप्रकारो यत्रोपदिश्यते सा शिक्षा ( वेदाङ्गम् )। छान्दसत्वादिकारस्य दीर्घोपि भवति । यथा शीक्षां व्याख्यास्यामः। वर्णः स्वरः । मात्रा बलम्। साम संतानः। इत्युक्तः शीक्षाध्यायः ( तैत्ति० उप० ) इति । अस्याः शिक्षायाश्च पाणिनिशिक्षानारदशिक्षाव्यासशिक्षादयो ग्रन्थाः सन्ति । शिथिलः—(गुणः ) अदृढः संयोगविशेषः । स च तूलकादौ परिमाणं
जनयति (भा० प० गु० श्लो० ११३ ) । अत्र शिष्टं तु प्रचयशब्द
व्याख्याने दृश्यम् । शिरा-स्थूलनाडी ( संगीतरत्नाकरे )।' शिवः-शिवशब्देन शिवत्वयोगिनां मन्त्रमन्त्रेश्वरमहेश्वरमुक्तात्मशिवानां
सवाचकानां शिवत्वप्राप्तिसाधनेन दीक्षादिनोपायकलापेन सह पतिपदार्थे संग्रहः ( सर्व० सं० पृ० १८० शै० )। शिवत्वं च पाशजालापोहने नित्यनिरतिशयक्क्रियारूपचैतन्यात्मकत्वम् (सर्व०सं०पृ० १८२ शै०)। शिष्टः-१ [क] फलसाधनत्वांशे भ्रान्तिरहितः ( दि० १ पृ० ५)।
अत्र शिष्टत्वं च क्षीणदोषपुरुषत्वम् । यथा मन्वादीनां शिष्टत्वम् इति प्राश्च आहुः ( न्या० सि० दी० पृ० २)। [ख ] इष्टसाधनत्वांशे अभ्रान्तः ( मू० म० १)। यथा मन्वादिः शिष्टः (म० वा० १)। [ग] धर्मज्ञास्तु स्वीकृतवेदप्रमाणभावः । सर्वे वेदाः स्वस्वतात्पर्यविषयार्थे प्रमाणम् इत्याकारकानाहार्यनिश्चयवान् इत्यर्थः । अत्र बालकपतितान्त्यजाद्यतिरिक्तः इति विशेषणमस्ति (मू० म० १ पृ० १०६-१०८)। [] वेदप्रामाण्याभ्युपगन्तृत्वे सति यो यदा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org