________________
८७८
न्यायकोशः। नद्या एकदेशस्थलविशेषजातो विष्ण्वादिदेवचक्रयुतशिलाविशेषः । यथा ब्राह्मणगृहे नित्यं पूजनीयाः श्रीवासुदेवहयग्रीवश्रीलक्ष्मीनृसिंहसीतारामाख्याः शालग्रामाः। शालग्रामोत्पत्तिकारस्तु कीटयोनि प्रपद्येथाः इति गण्डक्याः सुरान् प्रति शापे तेन कर्मविपाकेन जडा कृष्णा नदी भव इति देवानां गण्डकी प्रति शापे च जाते विष्णुना तत्समाधानायोक्तं यथा शृणु ब्रह्मन् महादेव शृणु देव गजानन । मद्गणौ ब्राह्मणौ ग्राहमातङ्गौ शापतोत्र वै ॥ भविष्यतस्तयोर्मोक्षं वदिष्यामि कलेवरम् । शीणं भविष्यति यदा तन्मेदोमन्जसंभवाः ॥ पाषाणान्तर्गताः कीटाः वज्राख्याः प्रभविष्यथ ( ब्रह्मवै० अ० १९) इत्यादि । वासुदेवादिनामफलभेदास्तु वराहपुराणे ज्ञेयाः । अत्र प्रशंसा शालग्रामशिलास्पर्श ये कुर्वन्ति दिने दिने । वाञ्छन्ति करसंस्पर्श तेषां देवाः सवासवाः ॥
इति। शासनम्-१ [क] प्रवर्तकव्यापारः। स च धर्म कुरु इत्यादिविधिघटितोपदेशरूपः । यथा माणवकं धर्म शास्ति इत्यादौ शास्तेरर्थः (ल. म०)। [ख] निकृष्टस्य हितसाधनं प्रवर्तनम् । २ राजदत्तभूमिः ।
३ राजलेख्यविशेषः । ४ शिक्षा ( दण्डः ) इति व्यवहारज्ञा आहुः । शास्त्रम्-[क] प्रमाणादिवाचकसमूहः' व्यूह विशिष्टः । यथा पश्चाध्यायी न्यायदर्शनम् शास्त्रम् (न्या० वा० पृ० १-२)। अत्र व्युत्पत्तिः शिष्यतेनेन (शास-ष्ट्रन्) इति शास्त्रम् । [ख] ज्ञानविशेषाधायकग्रन्थः । यथा वैशेषिकदर्शनम् । [ग] ऋग्यजुःसामाथर्वा च भारतं पञ्चरात्रकम् । मूलरामायणं चैव शास्त्रमित्यभिधीयते ॥ ( सर्व० सं० पृ० १५७ पूर्णप्र०)। [घ ] शास्ति च त्रायते चेति शास्त्रम् । यच्छास्ति वः क्लेशरिपूनशेषान् संत्रायते दुर्गतितो भवाच्च । तच्छासनात्राणगुणाञ्च शास्त्रमेतद्वयं चान्यमतेषु नास्ति ॥ ( नागार्जुनकृतकारिका ५ बौद्धदर्शने )। शास्त्रं द्विविधम् सच्छास्त्रम् असच्छास्त्रं च। तत्र सच्छास्त्रं हितानुशासनग्रन्थः । यथा ऋगादिशास्त्रम् । तदुक्तं स्कान्दे ऋग्यजुःसामाथर्वा च भारतं. पञ्चरात्रकम् । मूलरामायणं चैव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org