________________
न्यायकोशः।
८७७ विशेष्यकबोधः स्वीक्रियते । न तु आधुनिकप्रयोगात्तथाबोधोस्माभिः स्वीक्रियते । अश्वो गच्छत्यानय इत्यादौ च गमनकर्बश्वमानय इति प्रथमान्तार्थमुख्यविशेष्यक एव शाब्दबोधो नैयायिकानामभिमतः । अत्रायं भावः । शृणु मेघो गर्जति इत्यादौ वैयाकरणमते मेघकर्तृकगर्जनस्य श्रवणक्रियायामन्वयोपपत्तावपि अश्वो गच्छत्यानय इत्यादौ तन्मते अश्वकर्तृकगमनस्यानयनक्रियायामन्वयायोग्यतया बाधादन्वयानुपपत्तिः। अतः गमनकर्बश्वस्यैवानयनक्रियायामन्वयः स्वीकार्यः इति लब्धोयं प्रथमान्तार्थमुख्यविशेष्यकशाब्दबोधो नैयायिकानाम् । किं च शृणु मेघो गर्जति नटो गायति शृणु घटो नश्यति पश्य इत्यादौ श्रवणादिक्रियायां मेघाद्यन्वयासंभवेपि सविशेषणे हि विधिनिषेधौ सति विशेष्ये बाधे विशेषणमनुभवतः इति न्यायेन विशेषणेषु गर्जनगाननाशेषु श्रवणदर्शनान्वयसंभवः । अत एव शङ्खाः श्रयन्ते भेर्यः श्रूयन्ते इति महाभाष्यम् अश्रूयत पाश्चजन्यः इति माघप्रयोगश्च ( स० ३ श्लो० २१) संगच्छते इति । वैयाकरणास्त्वेवमत्रोपपत्ति चक्रुः अश्रूयत पाश्चजन्यः वीणा श्रूयते पुष्पाण्याघ्रायन्ते इत्यादौ धर्मधर्मिणोरभेदोपचाराच्छ्रवणाद्यन्वय उपपद्यते ( माघ० टी० ३।२१ ) इत्यलं विस्तरेण । मीमांसकास्तु सर्वत्राख्यातार्थव्यापारमुख्यविशेष्यक एव शाब्दबोधो भवति इत्यङ्गीचक्रुः । शाब्दिकः-व्याकरणशास्त्राभिज्ञः । यथा पाणिनिः शाब्दिकः । अत्र व्युत्पत्तिः शब्दसाधुताज्ञापकं शास्त्रं वेत्त्यधीते वा (ठक्) इति । अष्टौ शाब्दिकाः इन्द्रचन्द्रः काशकृत्स्नापिशली शाकटायनः । पाणिन्यमरजैनेन्द्रा
जयन्त्यष्टादिशाब्दिकाः ॥ ( कविकल्पद्रुमे ) इति । शाब्दी भावना-पुरुषप्रवृत्त्यनुकूलभावकव्यापारविशेषः ( मी० न्या० - पृ० १)। शारदः-अपराह्नः ( पु० चि० पृ० ३५३ )। शालग्रामः-१ पर्वतविशेषः । २ तत्रत्यो विष्णुमूर्तिविशेषः । ३ गण्डक्या
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org