________________
८७६
न्यायकोशः। - विशेष्यकः सर्वतन्त्रसिद्धो बोधः । पश्य मृगो धावति इत्यादौ मृगाभिन्न• कर्तृकं धावनं पश्य इति क्रियामुख्यविशेष्यको बोधः । अत्र वैयाकरणा
नामयमाशयः। धावनक्रियाया एव दृशिक्रियायां कर्मतयान्वयो विवक्षितः। तस्याश्च प्रातिपदिकार्थत्वाभावान्न धावतिपदोत्तरं द्वितीया । नैयायिकमते तु मृगपदार्थस्य दृशिक्रियायामन्वयेन तस्य प्रातिपदिकार्थत्वेन च मृगपदोत्तरं द्वितीयापत्तिः इति । पचति भवति इत्यादौ पाकाभिन्नकर्तृकं भवनम् इति क्रियामुख्यविशेष्यको बोधः । शृणु मेघो गर्जति इत्यादौ तु मेघाभिन्नकर्तृकं गर्जनं शृणु इति गर्जनरूपधात्वर्थमुख्यविशेष्यकः शाब्दबोधो वैयाकरणानां संमतः । अत्रायं भावः । श्रुधात्वर्थश्रवणक्रियायां शब्दरूपस्य गर्जनस्यैव योग्यतयान्वयः। न तु नैयायिकमत इव गर्जनकर्तृमेघस्य कर्मतासंबन्धेनान्वयः । अयोग्यत्वात् । इति प्रथमान्तार्थमुख्यविशेष्यकशाब्दबोधाङ्गीकर्तृनैयायिकमते तादृशबोधोपपादकमुख्योदाहरणानि तु घटो न भवति पटः त्रयः कालाः पश्य लक्ष्मण पम्पायां बकः परमधार्मिकः । अश्वो गच्छत्यानय इत्यादीनि द्रष्टव्यानि । घटो न भवति पटः इति वाक्यात् घटभेदवान् पटः इति प्रथमान्तार्थमुख्यविशेष्यको बोधः। त्रयः कालाः इत्यत्र त्रित्वविशिष्टाः कालाः इति कालमुख्यविशेष्यक एव बोधः । अत्र नैयायिकानामयमाशयः । त्रय कालाः इत्यत्र क्रियासमभिव्याहाराभावान्न क्रियामुख्यविशेष्यको बोधः । कालत्रयस्य जीवेन ज्ञातुमशक्यत्वेन जीवेन ज्ञायन्ते इत्यध्याहारासंभवः । ईश्वरेण ज्ञायन्ते इत्यध्याहारे क्रियमाणे तु मानाभावः । अस्तिर्भवन्तीपरः प्रथमपुरुषोप्रयुज्यमानोप्यस्ति इति महाभाष्योक्त (२।३।२) नियमानुसारेण
सन्ति इत्यस्य तु नाध्याहारः संभवति । इदानीं त्रयाणां कालानामविद्य- मानत्वात् इति । परमधार्मिको बकः पश्य इत्यादौ परमधार्मिकत्वविशिष्ट
बकं पश्य इति बोधः । अत्रायं भावः । परमधार्मिकत्वविशिष्टबकस्य
वाक्यार्थत्वेन पदार्थत्वाभावात्प्रातिपदिकार्थत्वमेव नास्ति इति न बक.. पदोत्तरं द्वितीयापत्तिः । एवमेव पश्य मृगो धावति इत्यादावप्युपपत्ति. द्रष्टव्या । पचति भवति इत्यादौ तु तथा भाष्यप्रयोगादेवं क्रियामुख्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org