________________
न्यायकोशः।
८७३ च इत्याहुः । ३ दुर्गादेवी इति शाक्ता आहुः । ४ दैवज्ञास्तु पूजाहोमजपदानादिद्वारा गोचरविलग्नादिस्थग्रहदौरथ्यदुःस्वप्नादिसूचितैहिकानिष्टहेतुपापनिवृत्तिः । तदुक्तम् यथा शस्त्रप्रहाराणां कवचं विनिवारकम् । तथा दैवोपघातानां शान्तिर्भवति वारणम् ॥ ( मलमासधृतवाक्यम् )। यथा उदकशान्तिः वास्तुशान्तिः भुवनेश्वरीशान्तिः इत्याहुः। आलंकारिकास्तु शमस्थायिभावकनिर्वेदव्यभिचारिभावकशान्ताख्यरसविशेषनिष्ठो धर्मविशेषः इत्याहुः। तदुक्तम् शान्तः शमस्थायिभाव उत्तमप्रकृतिर्मतः । कुन्देन्दुसुन्दरच्छायः श्रीनारायणदेवतः ॥ ( सा० द० परि० ३
श्लो० २४५ पृ० १८४ ) इत्यादि । शाब्दज्ञानम् —शाब्दबोधशब्दवदस्यार्थीनुसंधेयः। शाब्दबोध: ( अनुभवः) पदज्ञानकरणकं ज्ञानम् (मु० १ )। तच वाक्यार्थज्ञानम् (त० सं० ४) । अत्र व्युत्पत्तिः शब्दाजायमानो बोधः शाब्दबोधः इति । तत्र बोधे शाब्दत्वं च शब्दात्प्रत्येमि इत्यनुभवसिद्धो जातिविशेषः । अथ वा जन्यपधीजन्यत्वव्यभिचार्यनुभवत्वाव्यापकजातिशून्यत्वे सति पदविषयकत्वाव्यभिचारिजातिशून्यधीत्वम् । विग्रहश्च जन्यपदधीजन्यत्वव्यभिचारिणी अनुभवत्वाव्यापिका च या जातिः प्रत्यक्षत्वादिः तच्छून्यत्वे अति पदविषयकत्वाव्यभिचारिणी या जातिः उपमितित्वम् तच्छून्यधीत्वम् (त० प्र० परि० ४ पृ० ३) इति । अत्र पदप्रयोजनम् सत्यन्तं प्रत्यक्षानुमितिस्मृतीनां वारणाय । उपमितावतिव्याप्तिवारणाय शून्यान्तम् ( न्या० म० परि० ४१ पृ० १-२)। शाब्दबोधलक्षणं तु शक्तिलक्षणान्यतरसंबन्धेन पदजन्यपदार्थस्मृतित्वावच्छिन्नकारणतानिरूपितकार्यत्वम् ( वाक्य० ४ )। शाब्दबोधे च पदज्ञानं करणम् । पदार्थोपस्थितिापारः। शाब्दबोधः फलम् । पदज्ञानस्य च शक्तिज्ञानम् आकाङ्क्षायोग्यतासंनिधीनां ज्ञानं च सहकारि इति नव्यनैयायिकानां मतम् । अत्र विज्ञेयम् । तस्यां पदार्थोपस्थितौ वृत्तित्वेन वृत्तिज्ञानं सहकारि न तु शक्तित्वेन लक्षणात्वेन वा प्रातिस्विकरूपेण ज्ञानं सहकारि इति । प्राश्चां मतं तु तत्र शाब्दबोधे ज्ञायमानं पदमेव ११० न्या० को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org