________________
८७२
न्यायकोशः। - यथा गर्भाशयगतं शुक्रमार्तवं जीवसंज्ञकः । प्रकृतिः सविकारा चे - तत्सर्वं गर्भसंज्ञकम् ॥ कालेन वर्धितो गर्भो यद्यङ्गोपाङ्गसंयुतः। भवेत्तदा .. स मुनिमिः शरीरीति निगद्यते ॥ इति । तल्लक्षणादिकं तु जीवशब्द___ व्याख्याने दृश्यम् । शर्कराः-मृत्तिकामिश्राः क्षुद्रपाषाणाः शर्कराः (जै० न्या० अ० १ ___पा० ४ अधि० १९)। शस्त्रम्-अप्रगीतमन्त्रसाध्या स्तुतिः ( जै० न्या० अ० २ पा० १ - अधि० ५)। शांकरम्-आर्द्रा ( पु० चि० पृ० ३५३ )। शांभवी-( कल्याणीशब्दे दृश्यम् )। शाक्यः-बुद्धः । शाक्यशब्दनिरुक्तिरन्यथोक्ता । यथा शाकवृक्षप्रतिच्छन्नं
वासं यस्मात्प्रचक्रिरे । तस्मादिक्ष्वाकुवंश्यास्ते भुवि शाक्या इति श्रुताः। इति भरतधृतवचनम् । इयमत्राख्यायिका। पितृशप्ताः केचिदिक्ष्वाकुवंश्या गोतमवंशजकपिलमुनेराश्रमे योगाभ्यासाय शाकवृक्षे कृतवासाः
शाक्य इति ख्यातिमापन्नाः इति (वाच०)। शिष्टं तु बुद्धशब्दे दृश्यम् । शाक्यायनम्- ( यागः ) षट्त्रिंशत्सु संवत्सरेष्वनुष्ठेयं शाक्यायनम् - (जै० न्या० अ० ३ पा० ८ अधि० २३ )। शाठीसमः- ( जातिः ) त्वत्पक्षे किंचिदूषणं भविष्यति इति शङ्का (गौ०
वृ० ५।१।३७ ) । अयं शाठीसमश्च सूत्रानुक्तोपि कार्यसमप्रभेदः इति
वृत्तिकृता प्रतिपाद्यते इति विज्ञेयम् । शान–(प्रत्ययः ) १ प्रकृतधात्वर्थकर्ता कर्तृशानचोर्थः ( तर्का० ४
पृ० १२ ) । यथा पचमानः इत्यादौ । २ धात्वर्थजन्यफलवान् कर्मशानचोर्थः । यथा पच्यमान इत्यादौ । एवं कृतामप्यर्था ऊह्याः । भावकृतां ल्युट्घजादीनां तु प्रयोगसाधुत्वमात्रं प्रयोजनम् इति विज्ञेयम् । शान्तिः- १ उपद्रवनिवारणम् । यथा शान्ता पृथिवी शान्तं पापम इत्यादौ । २ वेदान्तिनस्तु कामक्रोधादिजयः विषयेभ्यो मनसो निवारणं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org