________________
न्यायकोशः।
८७१ वायुसंबन्धात् । अन्यथा तादृशवायुसंबन्धानङ्गीकारे भनक्षतसंरोहणादिकं न स्यात् । किं च वृक्षादयोपि शरीरभेदा एव । भोगाधिष्ठानत्वात् । न खलु भोगाधिष्ठानत्वमन्तरेण जीवनस्मरणस्वप्नजागरणभेषजप्रयोगबीजसजातीयानुबन्धानुकूलोपगमप्रतिकूलापगमादयः संभवन्ति । भोगोपपादकः प्राणवायुः। तदुपपादकं तु वृद्धिक्षतभग्नसंरोहणादिकम् इति । आगमोप्यस्ति प्रमाणम् नर्मदातीरसंभूताः सरलार्जुनपादपाः । नर्मदातोयसंस्पर्शात्ते यान्ति परमा गतिम् ॥ गुरुं हुंकृत्य तुंकृत्य विप्रं निर्जित्य वादतः । श्मशाने जायते वृक्षः कङ्कगृध्रोपसेवितः ॥ (वै० उ० ४।२।५) (दि० ११२ ) इत्यादि । तथा शरीरजैः कर्मदोषैर्याति स्थावरतां नरः ( याज्ञ० ) ( त० व० पृ० ११६) इत्यादि । मन्वादिविषये तु श्रूयते ब्रह्मणो मानसा मन्वादयः पुत्राः इति । ब्राह्मणमपि प्रजापतिः प्रजा अनेका असृजत् । स तपोतप्यत। प्रजाः सृजेयमिति । स मुखतो ब्राह्मणमसृजत् । बाहुभ्यां राजन्यम् । अरुभ्यां वैश्यम् । पद्भ्यां शुद्रम् ( वै० उ० ४।२।११ ) इति । दुर्वासःप्रभृतयो मानसाः अहंकारेभ्यः समभवदङ्गिराः इति समाख्या ( वै० ४।२।८ ) (५० मा० )। केचित्तु देवादीनां शरीरं तैजसमाहुः (त० व० ) । अत्रेदं बोध्यम् । क्षुद्रजन्तूनामूष्मजानां मशकादीनां तु यातनाशरीरमप्ययोनिजमेव (वै० उ० ४।२।५) (मु० १) (सि० च० ) इति । एतच्छरीरं त्वधर्मविशेषसहितेभ्योणुभ्य एव जायते इति ज्ञेयम् (वै० ४।२।७) (प० मा० )। सुश्रुते विशेष उक्तः । द्रव्याणि पुनरोषधयः । ता द्विविधाः स्थावराः जङ्गमाश्च । तासां स्थावराश्चतुर्विधाः वनस्पतयः वृक्षाः वीरुधः ओषधयश्च इति । जङ्गमा अपि चतुर्विधाः जरायुजाण्डजस्वेदजोद्भिजाः । तत्र पशुमनुष्यव्यालादयो जरायुजाः । खगसर्पसरीसृपप्रभृतयोण्डजाः । क्रिमिकीटपिपीलिकाप्रभृतयः स्वेदजाः।
इन्द्रगोपमण्डूकप्रभृतय उद्भिज्जाः इति । शरीरी-जीवात्मा । यथा अथाकाशशरीरिणाम् (भा० ५० श्लो० २७)
इत्यादौ शरीरिशब्दस्यार्थः । तत्स्वरूपं भावप्रकाशे सुश्रुतादौ चोक्तं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org