________________
८७०
न्यायकोशः। ते शरीरम् इति श्रूयते ( वात्स्या० ३।१।३२ )। मानुषादिशरीरेषु क्लेदपाकादीनां जलादिविकाराणामुपलब्धिस्तु पश्चानां भूतानां परस्परमुपष्टम्भकसंयोगादेव (वै० ४।२।२-४) ( गौ० ३।१।३१ ) इति । एवं जलीयतैजसवायवीयशरीरेष्वपि विज्ञेयम् । शरीरं द्विविधम् योनिजम् अयोनिजं च ( वै० ४।२।५ )। शुक्रशोणितसंनिपातजन्यं योनिजम् (प्रशस्त० पृ० ४) । अयोनिजं च शुक्रशोणितसंनिपातानपेक्षम् (वै० उ० ४।२।५) (प्रशस्त० पृ० ४.)। योनिजमयोनिजं च पार्थिवशरीरम् । तदुक्तं योगार्णवे देहश्चतुर्विधो जन्तोर्जेय उत्पत्तिभेदतः । उद्भिजः स्वेदजोण्डोत्थश्चतुर्थश्च जरायुजः ॥ उद्भिद्य भूमिं निर्गच्छबुद्भिज्जः स्थावरश्च यः। उद्भिज्जाः स्थावरा ज्ञेयास्तृणगुल्मादिरूपिणः ॥ (वाच० ) इति । आप्यं तैजसं वायवीयं चायोनिजमेव वरुणादित्यवायुलोकेषु प्रसिद्धं च (वै० उ० ४।२।११)। तत्र प्रमाणमनुमानम् । तच्च जलत्वाद्यपि सामान्यं शरीरसमवायिगम् । द्रव्यारम्भकनित्यस्थजातित्वात्पृथिवीत्ववत् ॥ (त० व० प्रमाणपरि० पृ० ११६) इति। तत्र योनि पार्थिवशरीरम् द्विविधम् जरायुजम् अण्डजं च । जरायुजं मानुषपशुमृगाणाम् । अण्डजं पक्षिसरीसृपाणाम् (प्रशस्त० पृ० ४ )। कीटमत्स्यादयोपि सरीसृपवदेव (वै० उ० ४।२।५ ) । अयोनिजं पार्थिवशरीरं च त्रिविधम् स्वेदजम् उद्भिजम् अदृष्टविशेषजन्यं च । अत्रेदं बोध्यम् । अयोनिजपार्थिवशरीराणामुत्पत्तिर्धर्मविशेषसहितेभ्योणुभ्य एव स्वीक्रियते ( दि. १) ( त० कौ० )। अहंकारेभ्यः समभवदङ्गिराः इत्यन्वर्थसंज्ञाया आगमेपि दर्शनात् (त० व० पृ० ११७ ) इति । तत्र स्वेदजं शरीरं यूकालिक्षादीनाम् । उद्भिजं वृक्षतृणगुल्मादीनाम् । अदृष्टविशेषजन्यं मन्वादीनां देवर्षिनारदादीनां च (त० को०)। यद्यपि वृक्षादीनां शरीरत्वमस्त्येव । तथापि चेष्टावत्त्वमिन्द्रियवत्त्वं च नोद्भिदां स्फुटतरम् । अतो न शरीरव्यवहारः (वै० उ० ४।२।५)। अतः केचित् वृक्षादीनां शरीरत्वं नेच्छन्ति (त० व० पृ० ११६ )। अथ वृक्षादीनां शरीरत्वे प्रमाणमनुमानं प्रदर्श्यते । वृक्षादावपि चेष्टास्त्येव । आध्यात्मिक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org