________________
न्यायकोशः ।
1
(वै० ४० ४।२।१ ) । अथ वा अन्त्यावयविमात्रवृत्तिचेष्टावद्वृत्तिजातिमत्त्वम् (वै० वि० ४।२।१ ) ( प० मा० ) । अत्रत्यपदप्रयोजनमुच्यते । हस्तत्वपृथिवीत्वद्रव्यत्वसत्त्वादिवारणाय अन्त्यावयविमात्रवृत्ति इति पदं दत्तम् । घटत्वादिवारणाय चेष्टावद्वृत्ति इति पदम् । घटशरीरसंयोगादिवारणाय जाति इति पदम् । एवं च मनुष्यत्वचैत्रत्वादिजातिमादाय मानुषादिशरीरे लक्षणसमन्वयः । कल्पभेदेन नृसिंहशरीरस्य नानात्वान्नृसिंहत्वजातिमादाय तत्र लक्षणसमन्वयः । अथ वा अवच्छेदकतासंबन्धेन भोगाश्रयत्यम् ( वाक्य० ) । यद्वा चेष्टावदन्त्यावयवीतरावृत्तिजातिमत्त्वम् । भोगायतनवृत्त्यन्त्यावयविमात्रवृत्तिजातिमत्त्वं वा ( प० मा० ) । जीवशरीरमात्रलक्षणं तु आत्मविशेषगुणजनक मनः संयोगावच्छेदकत्वम् ( त० भा० ) । अथ चेष्टेन्द्रियार्थाश्रय इत्यस्यार्थ उच्यते । अत्र आश्रयपदस्य प्रत्येकमन्वयाच्चेष्टाश्रयत्वादि लक्षणत्रयम् । इन्द्रियाश्रयत्वं चावच्छेदकताख्यस्वरूपसंबन्धविशेषेण । चक्षुष्मान् देवदत्तोयम् इत्यादिप्रतीतेः । अर्थाश्रयत्वम् इत्यत्रार्थशब्दः सुखदुःखान्यतरपरः ( गौ० वृ० १ । १ । ११ ) । यद्वा शरीरानुविधानमिन्द्रियाश्रयत्वम् । शरीरस्योपघातानुविधानमित्यर्थः ( न्या० वा० १|१|११ पृ० ७१ ) । [ख] आत्मनो भोगायतनम् ( वात्स्या० १|१|९ ) ( त० भा० पृ० २५ ) ( वाक्य ० ) । यदवच्छिन्नात्मनि भोगो जायते तद्भोगायतनमित्यर्थः ( त० दी ० ) । हस्ताद्यवयवानां शरीरत्वानङ्गीकारे त्वन्त्यावयवित्वं देयम् । तथा चोक्तं भोगायतनमन्त्यावयवि शरीरम् ( त० कौ० ) इति । शरीरमन्त्यावयवि चेष्टाभोगेन्द्रियाश्रयः ( ता० र० परि० १० २८ ) इति च । यथा अस्मदादीनां पार्थिवशरीरम् ( त० सं० ) । तच्च शरीरं न पाचभौतिकम् ( जलादिपरमाणुद्वय संयोगासमवायिकारणकम् ) । पृथिवीत्व जलत्वादिजातीनां परस्परसांकर्यप्रसङ्गात् । किं तु पार्थिवमेव । स्वाभाविकगन्धवत्त्वात् । अत्र सूत्रम् पार्थिवं गुणान्तरोपलब्धेः ( गौ० ३।१।२८ ) इति । श्रुतिरपि सूर्यं ते चक्षुर्गच्छतात् इत्यत्र मन्त्रे पृथिवीं
1
1
Jain Education International
For Personal & Private Use Only
८६९
www.jainelibrary.org