________________
८६८
न्यायकोशः। यथा वा नित्यः शब्दो नित्यः शब्दः इति ( वात्स्या० ५।२।१४ )। अन्ये तु शब्दपुनरुक्तं द्विविधम् तस्यैव शब्दस्य पुनरभिधानम् तस्यैव शब्दस्य पर्यायेणाभिधानं च इत्याहुः ( गौ० वृ० ५।२।१५ )। शब्दाध्याहारः-(अध्याहारः ) आकाशितशब्दानुसंधानम् ( नील० ४
पृ० ३१ )। यथा पिधेहि इत्युक्ते द्वारम् इति द्वितीयान्तपदाध्याहारः। अत्राप्यर्थाध्याहार एव न तु पदाध्याहारः कर्तव्यः इति प्राभाकरा आहुः । नैयायिकास्तन्न सहन्ते। घटमानय इति वाफ्यादिव घटः कर्मत्वं आनयनम् कृतिः इति वाक्यादपि घटनिष्ठकर्मतानिरूपकानयनानुकूलकृतिमान् इति विशिष्टार्थविषयकशाब्दबोधोत्पत्त्यापत्तिवारणाय वृत्त्या पदविशेषजन्याया एव पदार्थोपस्थितेः शाब्दबोधं प्रति हेतुत्वस्य कल्पनीयतया शब्दा
ध्याहार एवावश्यकः नार्थाध्याहारः (त० दी०४ पृ० ३१ ) इति । शब्दानुशासनम्-व्याकरणम् । अनेन हि वैदिकाः शब्दाः शं नो देवीरभिष्टय इत्यादयः तदुपकारिणो लौकिकाः शब्दा गौरश्वः पुरुषो हस्ती शकुनिरित्यादयश्चानुशिष्यन्ते व्युत्पाद्य संस्क्रियन्ते प्रकृतिप्रत्ययविभागवत्तया बोध्यन्ते ( सर्व० सं० पृ० २८८-२८९ पाणि० )। शब्दार्थः-अर्थशब्दव्याख्यानावसरे अस्य प्रपञ्चः संपादितः (चि०)
(ग० शक्ति० पृ. ३ )। शब्दोपजीवि-(प्रमाणम् ) शब्दसहकृतेन येन प्रमितिर्जन्यते तत् (कु०५)। - यथा स्मृतिपुराणादि । तत्तु वेदोपजीवि प्रमाणं भवति इति बोध्यम् । शम्या-१ मुसलाकारकाष्ठम् (जै० न्या० अ० ३ पा० १ अधि० ६)।
२ रूक्षा इत्यथोपि ( अ० ४ पा० १ अधि० १२ )। शरीरम्-[क] चेष्टेन्द्रियार्थाश्रयः शरीरम् (गौ० १।१।११ ) ( त. भा० प्रमेय० पृ० २५ ) अत्र व्युत्पत्तिः शीर्यते इति ( शईरन् )। प्रतिक्षणं क्षीयमाणं देहं शरीरम् । शरीरत्वं तु न जातिः। पृथिवीत्वादिना संकरात् (वै० वि० ४।२।१ ) (मु० १ परि० २)। शरीरत्वं च प्रयत्नवदात्मसंयोगासमवायिकारणवत्क्रियावदन्त्यावयवित्वम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org