________________
न्यायकोशः ।
८६
शब्दो निर्दोषशब्दत्वात् आगमः इत्युच्यते । आगमो द्विविधः अपौरुषेयः पौरुषेयश्चेति । तत्रापौरुषेय ऋगादिः सदागमः । पौरुषेयो महाभारतादिः सदागमः इति । तदुक्तम् आगमो द्विविधो ज्ञेयो नित्यो नित्यस्तथैव च । ऋगाद्या भारतं चैव पञ्चरात्रमथाखिलम् ॥ मूलरामायणं चैव पुराणं चैतदात्मकम् । ये चानुयायिनस्तेषां सर्वे ते च सदागमाः || दुरागमास्तदन्ये ये तैर्न ज्ञेयो जनार्दनः ( प्र० च० परि० १० ४१ ) इति । अत्र अपौरुषेयत्वादिविचारणं तु वेदशब्दव्याख्यानावसरे कृतम् इति तत्तत्र दृश्यम् । अप्रमाणशब्दस्तु दोषवत्त्वात् आगमाभासः इत्युच्यते । शब्ददोषास्तु अबोधकत्वम् विपरीतबोधकत्वम् ज्ञातज्ञापकत्वम् अप्रयोजनवत्त्वम् अनभिमत प्रयोजनवत्त्वम् अशक्यसाधनप्रतिपादनम् लघूपाये सति गुरूपायोपदेशनम् इत्याद्याः । तत्र अबोधकत्वं द्वेधा निरभिधेयत्वेन अन्वयाभावेन चेति । तत्राद्यस्योदाहरणम् कचटतपानां जबगडदत्वात् इति । द्वितीयस्योदाहरणम् गौरवः पुरुषो हस्ती कुण्डमजाजिनं दश दाडिमानि षडपूपाः, इत्यादि । विपरीतबोधकत्वस्योदाहरणम् विमतं मिथ्या शूद्राणां वेदविद्याधिकारोस्ति ब्राह्मणानां नास्ति इत्यादि । ज्ञातज्ञापकत्वस्योदाहरणम् पुरस्तादादित्य उदेति पश्चादस्तमेति मधुरो गुडः तिक्तं निम्बफलम् इत्यादि । अप्रयोजनवत्त्वस्योदाहरणम् काकस्य कति वा दन्ता मेषस्याण्डं कियत्पलम् । कम्बले कति रोमाणि का वार्ता चोलमण्डले ।। इत्यादि । अनभिमतप्रयोजनवत्त्वस्योदाहरणम् विरक्तं प्रति वाणिज्योपदेशः इत्यादि । अशक्य साधनप्रतिपादनस्योदाहरणम् मृतमुद्दिश्य मृतिहरहिम महीधरोत्तरसानुसिद्धमृत संजीवनी कथनादि । लघूपाये सति गुरूपायोपदेशनस्योदाहरणम् नखेन जायमानं कार्यं कुठारेण कुरु इति तृषितं प्रति गीर्वाणतरङ्गिणीतीरे कूपखननोपदेशः इत्यादि ( प्र० च० परि० १ पृ० ३६ ) ।
शब्दपुनरुक्तम् — ( पुनरुक्तम् निग्रहस्थानम् ) [क] शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् (गौ ० ५ | २ | १४ ) । [ ख ] समानार्थकसमानानुपूर्वीकशब्दप्रयोगः यथा घटो घटः ( गौ० वृ० ५ | २ | १४ ) इति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org