________________
८६६ .
न्यायकोशः। । नैयायिकानां मते वीचीतरङ्गन्यायेन तदुत्पत्तिः । केषांचिन्मते तु
कदम्बकोरकन्यायेन तदुत्पत्तिः ( भा० ५० श्लो० १६७ )। तत्राद्या
तदुत्पत्तिर्यथा आद्यया वीच्यान्यो महानेकस्तरङ्गो जन्यते। तेन तरङ्गेण च _महत्तरं तरङ्गान्तरम् । तद्वत् आद्यशब्देन बहिर्दशदिगवच्छिन्नोन्यशब्द.. स्तेनैव शब्देन जन्यते तेन चापरस्तद्व्यापकः शब्दः इत्येवं क्रमेण
श्रोत्रोत्पन्नः शब्दो गृह्यते। भेरीदण्डाद्यभिघातात्तद्देशावच्छेदेनाद्यशब्दस्योत्पत्तिः। अनन्तरम् तद्वहिर्दशदिगवच्छेदेन प्रथमशब्दात्तद्व्यापको द्वितीयः शब्दः । ततस्तद्वहिर्दशदिगवच्छिन्नस्तृतीयः शब्दो द्वितीयशब्दाद्भवति इत्येवं क्रमेण चतुर्थादिशब्दानामप्युत्पत्तिर्बोध्या । द्वितीया तदुत्पत्तिर्यथा कदम्बपुष्पस्य सर्वावयवेषु युगपत्कोरकाणामुत्पत्तिः तद्वत् आद्यशब्दाद्दशसु दिक्षु दश शब्दा उत्पद्यन्ते तैश्चान्ये दश शब्दा उत्पद्यन्ते इत्येवं सर्वासु दिक्षपर्युपरि शब्दानामुत्पत्तिः (मु० गु० पृ० २३६ ) इति । द्वितीयादिशब्दो नैकः न वा दशदिगवच्छिन्नः । किं तु दशसु दिनु
द्वितीयाद्याः शब्दा दश उत्पद्यन्ते इत्येतन्मते विशेषः ( वै० वि० .. २।२।३७)। वायुगतेः समानत्वे प्रथमः पक्षः । असमानत्वं द्वितीय इति
बोध्यम् । वैयाकरणास्तु वर्णः अकारादिः नित्यः इत्याहुः ( न्या० म० ४
पृ० ३१ ) ( चि० ४ ) ( त० सं० ) (सि० च० ) ( त० दी०) . (नील० )। तन्मते वर्णानां नित्यत्वे प्रमाणमनुमानम् । तच्च वर्णो
नित्यो ध्वन्यन्यशब्दत्वात् स्फोटवत् ( न्या० म० ४ पृ० ३१ ) इति । तत्र अर्थबोधकशब्दं स्फोटात्मकमिच्छन्ति वैयाकरणाः । तथा च पञ्चाशद्वर्णाः अष्टाक्षरो मन्त्रः व्यक्षरो मत्रः अष्टाक्षरानुष्टुप् इत्यादिसंख्याप्युपपद्यते इति । तन्न सहन्ते वैशेषिकाः । पञ्चाशदादिसंख्यायाः सद्भावः कत्वगत्वादिजातित एवोपपद्यते इति न वर्णानां नित्यत्वम् इति (वै० २।२।३७)। शब्दो न प्रमाणम् इति सौगता आहुः ( प्र० प्र० ४ )। मीमांसकास्तु वैदिकशब्दः प्रमाणम् लौकिकस्त्वनुवादकः इत्याहुः ( म०
प्र. ४ ) । अत्र मध्वमतानुयायिवेदान्तिनस्तु वेदान्तोपयोगित्वेनैवं शब्द · विभजन्ते । शब्दो द्विविधः प्रमाणशब्दः अप्रमाणशब्दश्च । तत्र प्रमाण,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org