________________
न्यायकोशः।
८६५ च इति (ल० म०)। तन्न सहन्ते वैशेषिकाः । एकद्रव्यत्वान्न द्रव्यम् (वै० २।२।२३) इति । तदर्थस्तु शब्दो न द्रव्यम् । एकद्रव्यत्वादेकमात्राश्रितत्वात् । न ह्येकमात्राश्रितं किमपि द्रव्यं प्रसिद्धम् इति (वै० वि० २।२।२३ )। शब्दो नित्यः इति प्राभाकरा भट्टाश्चाहुः । एतन्मते शब्दस्य नित्यत्वे प्रमाणमनुमानम् । तच्च शब्दो नित्यो व्योममात्रगुणत्वाव्योमपरिमाणवत् इति । अथ वा शब्दो नित्यः । अद्रव्यद्रव्यत्वात् । प्रत्यभिज्ञानाच्च इति च (न्या० म० ४ पृ. ३१) (त० प्र० ४ पृ० १२४ ) (न्या० ली० गु० पृ० ४९ )। अथ वा शब्दो नित्यः निःस्पर्शद्रव्यत्वादात्मवदिति । अत्रायमाशयः । सोयं गकारः इति प्रत्यभिज्ञाबलात् शब्दस्य नित्यत्वम् । अस्यां प्रत्यभिज्ञायाम् एतत्कालीनगकारे पूर्वकालीनगकाराभेदो भासते । अतो नित्य इति भावः (त० प्र० ख० ४ पृ० १२४ )। गकार उत्पन्नः विनष्टश्च इति प्रत्ययस्तु शब्दव्यञ्जकवायूत्पत्तिविषयक एव इति ( न्या० म० ४ पृ० ३१ ) ( वै० २।२।३४-३५ )। अत्र शब्दव्यञ्जकवायुरेवोत्पद्यते न तु शब्द उत्पद्यते इति भावः (त. प्र० ख० ४ पृ० १२४ )। प्रयत्नेन शब्दमुच्चारयतः पुंसो वायुर्नामेरुत्थितः उरसि विस्तीर्णः कण्ठे विवर्तितो मूर्धानमाहत्य परावृत्तो विचरन्नानाविधाञ्छब्दानभिव्यनक्ति इति मीमांसकसिद्धान्तः । नानाविधाञ्छब्दान् निष्पादयति इति तार्किकपाठः (म० प्र० ४ पृ० ६४)। नैयायिकास्तु शब्दः अनित्यः इत्याहुः (वै० २।२।२८)। अयमाशयः । सोयं गकारः इति प्रत्यभिज्ञायां पूर्वकालीनगकारसादृश्यमेवैतद्गकारे भासते । यदि प्राभाकरमतानुरोध्यभेदो भासेत तदा सोयं घटः इति प्रत्यभिज्ञायामप्यभेदस्यैव तुल्यन्यायेन भासनस्यावश्यकतया घटस्यापि नित्यत्वापत्तिः । अतः शब्दस्यानित्यत्वमेव । शब्दस्यानित्यत्वे प्रमाणमनुमानम् । तच्च शब्दः अनित्यः सामान्यवत्त्वे सति बहिरिन्द्रियजन्यलौकिकप्रत्यक्षविषयत्वाल्लौकिकप्रत्यक्षविशेष्यत्वाद्वा घटवत् इति ( गौ० वृ० २।२।१३) । तथा च सूत्रम् आदिमत्त्वादैन्द्रियकत्वात्कृतकवदुपचाराच्च ( गौ० २।२।१३ ) इति । शब्दोत्पत्तिर्द्विविधा केषांचि१०९ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org