________________
न्यायकोशः। विभागो निमित्तकारणम् (त० को०) (वै० उ० २।२।३१)। शब्दजशब्दविषये तु वीचीतरङ्गन्यायेन कदम्बमुकुलन्यायेन वा ये द्वितीयादयः शब्दाः ते शब्दजाः । तत्रोत्तरोत्तरशब्दे पूर्वपूर्वशब्दोसमवायिकारणम् । अनुकूलवातादिकं निमित्तकारणम् (त० कौ० ) इति । वर्णात्मकः शब्दो द्रव्यम् इति मध्वमतानुयायिन आहुः (प्र० प्र० पृ० ११)। वर्णात्मकः पुनर्द्विविधः सार्थकः निरर्थकश्च । तत्र सार्थकः शब्दस्त्रिविधः प्रकृतिः प्रत्ययः निपातश्चेति (श० प्र० श्लो० ६ )। निरर्थकस्तु कचटतप इत्यादिः । पुनरपि वर्णात्मको द्विविधः प्रमाणशब्दः अप्रमाणशब्दश्च । प्रमाणशब्द इत्यस्यार्थश्च शाब्दप्रमितिकरणज्ञानविषयः शब्द इति (त. प्र. प० ४ पृ० ६) ( त० कौ० ) (प्र० प्र०)। अयमर्थश्च शाब्दबोधं प्रति पदज्ञानस्य करणतामते संगच्छते। मणिकृतस्तु प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्द इत्याहुः ( त० प्र० प० ४ पृ० ५)। यथाश्रुतार्थस्य शाब्दप्रमितिकरणरूपस्याङ्गीकारे स चार्थः शाब्दबोधं प्रति ज्ञायमानं पदं करणम् इति मने संगच्छते इति विज्ञेयम् । प्रमाणशब्दत्वं च शाब्दप्रमितिकरणत्वम् ( न्या० म० ४)। इदं लक्षणं च ज्ञायमानं पदं करणम् इति मताभिप्रायेणास्ति (म० प्र० ४) । अथ वा प्रकृतवाक्यार्थविषयकयथार्थशाब्दबोधविषयकतात्पर्यजन्यवाक्यम् । ( वाक्य० ४ )। परे तु प्रमोपधायकशब्दत्वम् इति वदन्ति ( मू० म० १ )। तत्र प्रमाणशब्द आप्तोपदेशः । तदर्थश्च आप्तः यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा । तस्य शब्दः ( वात्स्या० १।११७ )। अथ वा प्रयोगहेतुभूतार्थतत्त्वज्ञानजन्यः शब्दः (चि० ४) । सोपि द्विविधः लौकिक: वैदिकश्च । तत्राद्यो लौकिक: विधिनिषेधार्थवादभेदेन त्रिविधः । तत्र विधियथा पाकं कुर्यात् इत्यादिः । निषेधश्च इदमनिष्टं न कुर्यात् इत्यादिः । अर्थवादस्तु अयं ब्राह्मणः स्वमहिम्ना सर्व जगत्पवित्रं करोति इत्यादिः स्वयमूह्यः । नद्यास्तीरे पञ्च फलानि सन्ति इत्यादिरूपो वा (प्र० प्र०)। द्वितीयस्तु वैदिकः पञ्चविधः विधिः मत्रः नामधेयम् निषेधः अर्थवादश्चेति । तत्र
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org