________________
न्यायकोशः। संयोगाद्वर्णोत्पत्तिः । अथ ध्वनिलक्षणोपि ( १ ) भेरीदण्डसंयोगाद्वेगापेक्षाद्भर्याकाशसंयोगादुत्पद्यते। (२) वेणुपर्व विभागापेक्षाद्वेण्वाकाशविभागाच्च । ( ३ ) शब्दाच्च शब्दनिष्पत्तिः। शब्दात्संयोगविभागनिष्पनाद्वीचीसंतानवच्छब्दसंतानः इत्येवं संतानेन श्रोत्रप्रदेशमागतस्यान्त्यशब्दस्य ग्रहणम् । श्रोत्रशब्दयोर्गमनागमनाभावात् ( संयोगगमनाभावात्) अप्राप्तस्य चानुपलब्धेः परिशेषात्संतानसिद्धिः (प्रशस्त० गुणनि० पृ० ५५-५६) (वै० २।२।३१ )। अत्र शाब्दिका आहुः । वर्णात्मकश्च शब्दो वस्तुत एकोपि तत्तद्वर्णसंस्कारैः प्रतिबिम्बिततत्तद्रूपोनन्तपदरूपताभिवापन्न इति सर्वपदरूपः सर्वार्थाभिधानशक्तिः । सा शक्तियोंगिप्रत्यक्षगम्या नास्मज्ज्ञानगम्या। यत्रैवं व्यवहारादिना तज्ज्ञानं तस्यैवास्माकं बोधः इति मर्यादा (ल० म० आका० पृ० ४९ ) । अत्रेयं व्युत्पत्तिः । शब्द्यतेनेनार्थ इत्यभिधीयते ज्ञाप्यते इति (वात्स्या० १।१।३ )। अत्र वैयाकरणा आहुः । पर! पश्यन्ती मध्यमा वैखरी इति चत्वारि वाचः पदानि । एकैव नादात्मिका वाड्यूलाधारादुदिता सती परा इत्युच्यते । सैव हृदयाभिगामिनी पश्यन्ती इत्युच्यते । सैव बुद्धिं गता विवक्षां प्राप्ता मध्यमा इत्युच्यते । अथ यदा सैव वक्रे स्थिता ताल्वोष्ठादिव्यापारेण बहिर्निगच्छति तदा वैखरी इत्युच्यते । अत्र श्रुतिः गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ( ऋ० १।१६४।४५ ) इति । ध्वन्यात्मकवर्णात्मकौ द्विविधावपि प्रत्येकं त्रिविधौ संयोगजौ विभागजी शब्दजौ चेति । तत्राद्यौ भेर्यामभिहन्यमानायां भेरीदण्डसंयोगाद्धन्यात्मकः । वायुकण्ठताल्वादिसंयोगाद्वर्णात्मकश्च । द्वितीयौ वंशे पाट्यमाने दलद्वयविभागात् चटचटात्मको ध्वन्यात्मकः ओष्ठद्वयविभागाद्वर्णात्मकश्च । तृतीयौ च द्वितीयशब्दादिचरमशब्दान्तौ ( वै० २।२।३१) । तत्र संयोगजे ध्वन्यात्मके भेर्याकाश संयोगोसमवायिकारणम्। भेरीदण्डसंयोगो निमित्तकार..म् । समवायिकारणं तु सर्वत्रैवाकाशम् इति ज्ञेयम् । विभागजे ध्वन्यात्मके तु वंशदलद्वयाकाशविभागोसमवायिकारणम् । वंशदलद्वय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org