________________
न्यायकोशः। राद्धान्तः । पृथिव्यादिषु पञ्चसु शब्दस्तिष्ठति इति सांख्या वेदान्तिनश्वाहुः । स्वतन्त्रास्तु भेाँ शब्दः मृदङ्गे शब्दः इति व्यवहारात्पृथिव्यामेव शब्दमिच्छन्ति ( सि० च० १ पृ० १८ )। शब्दो न स्पर्शवद्विशेषगुणः । प्रत्यक्षत्वे सति अकारणगुणपूर्वकत्वात् । अयावद्रव्यभावित्वात् । आश्रयादन्यत्र श्रोत्रदेशे उपलब्धेश्च । शब्दो गुणो भूत्वाकाशस्याधिगमे लिङ्गम् ( प्रशस्त० पृ० ७ ) (मु० ख० १) इति । शब्दोम्बरगुणः श्रोत्रग्राह्यः क्षणिकः कार्यकारणोभयविरोधी संयोगविभागशब्दजः प्रदेशवृत्तिः समानासमानजातीयकारणकः ( प्रशस्त० गुणनि० पृ० ५५) इति । कार्यकारणविरोधीत्यस्यार्थश्च कार्यमुत्तरशब्दः । कारणं संयोगविभागशब्दाः । एतदुभयेनाप्ययं विरुद्ध्यते इति । [ख ] श्रोत्रग्राह्यो . गुणः । [ग] येनोच्चारितेन सास्नालालककुदखुरविषाणिनां संप्रत्ययो
भवति स शब्दः । स च शब्दो द्विविधः बुद्धिहेतुकः अबुद्धिहेतुकश्च । तत्र अबुद्धिहेतुको मेघादिशब्दः । बुद्धिहेतुकश्च द्विविधः स्वाभाविकः काल्पनिकश्च । उभयत्रापि ध्वनेरुपकारकत्वाद्धन्यात्मकता। तत्र स्वाभाविको वर्णविशेषानभिव्यञ्जको हसितरुदितादिरूपः प्राणिमात्रसाधारणः । काल्पनिकोपि त्रिविधः वाद्यादिशब्दः गीतिरूपः वर्णात्मकश्च । तत्र
भेरीशब्दादिर्वाद्यादिशब्दः । माधवादिरागाभिव्यञ्जकनिषादादिस्वरशब्दो ...गीतिरूपः । ध्वनिविशेषसहकृतकण्ठताल्वाद्यभिघातजन्यश्च वर्णात्मकः
( शब्दार्थरत्ने० ) ( वाच०)। अन्यत्र चेत्थं विभाग उक्तः । शब्दो । द्विविधः ध्वन्यात्मकः वर्णात्मकश्च । तत्राद्यो भेरीमृदङ्गादौ प्रसिद्धः । द्वितीयः संस्कृतभाषादिरूपः शब्दः । अत्र भाष्यम् स च द्विविधः वर्णलक्षणः अवर्णलक्षणश्च । तत्र अकारादिर्वर्णलक्षणः । ध्वनिलक्षणश्चावर्णलक्षणः । अत्र पाठान्तरम् संख्यानिमित्तः अवर्णलक्षणः इति (प्रशस्त० गुण० पृ० ५५ )। तत्र वर्णलक्षणस्योत्पत्तिः । आत्ममनसोः संयोगात्स्मृत्यपेक्षाद्वर्णोच्चारणेच्छा । तदनन्तरम् प्रयत्नः । तमपेक्षमाणादात्मवायुसंयोगाद्वायौ कर्म जायते । स च वायुरूज़ गच्छन् कण्ठादीनभिहन्ति । ततः स्थानवायुसंयोगापेक्षात्स्थानाकाश
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org