________________
न्यायकोशः। शक्तिमत्त्वाचातुर्विध्यमेव रूढानाम् इति । यदुक्तं देण्ड्याचाथैः । शब्दैरेव प्रतीयन्ते जातिद्रव्यगुणक्रियाः । चातुर्विध्यादमीषां तु शब्द उक्तश्चतुर्विधः ॥ इति । तदेतच्छब्दशक्तिप्रकाशे खण्डितम् तदेतत् जडमूकमूर्खादीनामन्यशून्यादीनां च शब्दानामपरिग्रहापत्त्या परित्यक्तमस्माभिः (श० प्र० श्लो० १८ टी० पृ० १७ ) इति । अपोहार्थे शक्तिरिति बौद्धा मन्यन्ते । अत्रेदं बोध्यम् । प्रथमतः शक्तिग्रहो व्यवहारात् घटानयनादिरूपात् भवति । तथा हि घटमानय इति केनचित् प्रयोजकवृद्धेन नियुक्तः कश्चन प्रयोज्यवृद्धः तद्वाक्यतोथं प्रतीत्य घटमानयति । तच्चोपलभमानो बालस्तया क्रियया तस्य प्रयोज्यस्य प्रयत्नमनुमिनोति। तेन च घटानयनगोचरप्रयत्नेन तस्य ज्ञानं घटानयनगोचरम् अनुमिनोति । स्वप्रयत्ने तेन तथा निश्चयात् । ततस्तद्धत्वाकाङ्क्षायाम् उपस्थितत्वाच्छब्दमेव कल्पयति । तदनन्तरम् घटादिपदानां प्रत्येकमावापोद्वापाभ्यां घटपदं घटधीजनकम् इति कल्पयति । क्लप्ते च तस्मिन् अतिप्रसङ्गभङ्गाय तजननानुकूलसंकेतरूपं संबन्धं कल्पयति । अत्रातिप्रसङ्गस्तु घटपदं घटधीजनकमिव पटधीजनकमपि स्यात् इति अगृहीतशक्तिकानामपि घटबोधः स्यात् इति वा बोध्यः । तत आद्यशक्तिप्रहानन्तरम् उपमानादिभिः शक्तिग्रहो भवति (न्या० म० पृ० ५)। अत्रोक्तमभियुक्तैः । शक्तिप्रहं व्याकरणोपमानकोशाप्तवाक्याव्यवहारतश्च । वाक्यस्य शेषाद्विवृतेर्वदन्ति सांनिध्यतः सिद्धपदस्य वृद्धाः ॥ (मु० ४ ) ( त० प्र० ४ पृ० ७३ ) इति । तत्र ( १) व्याकगणाच्छक्तिग्रहो यथा कर्मणि द्वितीया कर्तरि परस्मैपदम् इत्यनुशासनात्कर्मत्वादो द्वितीयादेः शक्तिग्रहः । धातुप्रकृतिप्रत्ययादीनां शक्तिग्रहो व्याकरणाद्भवति इति । (२) उपमानाच्छक्तिग्रहो यथा गवादिपदशक्ति धीसाचिव्येन गोसादृश्यातिदेशवाक्याद्गवयपदवाच्यत्वबोधोत्तरं गवयत्वजात्यवच्छिन्ने गोसादृश्यग्रहात् गवयो गवयपदवाच्यः
इत्याकारः । गोसदृशो गवयपदवाच्यः इति सादृश्यज्ञानाद्वयपदस्य - गवये शक्तिग्रहो भवति इति वा। कचित्तु (३) कोशादपि शक्ति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org