________________
न्यायकोशः। प्रामाण्यम् इति मीमांसकसिद्धान्तः । जातौ व्यक्तौ चोभयत्र शक्तिः । किं तु जात्यंशे ज्ञाता व्यक्त्यंशे स्वरूपसती प्रत्यायिका इत्यन्ये मीमांसका आहुः । अत्राहुः गुरुमततत्त्ववेदिनः । विशिष्टगोचरा एकैव शक्तिः । किं तु जातिनिष्टतया सा शक्तिः ज्ञातोपयुज्यते । ब्यक्तौ सा स्वरूपसती। समानवित्तिवेद्यतया च व्यक्तेरपि भानम् इति (न्या० सि० दी० पृ० १२)। अत्र व्यक्तेरन्वयप्रकारतया भानम् इति गुरुमतैकदेशिन आहुः । समासस्य विशिष्टार्थे शक्तिः इति शाब्दिका आहुः । तन्न । तत्रावयवलक्षणयैवोपपत्तौ समुदायशक्तौ मानाभावः इति नैयायिकाः प्राहुः । मीमांसकास्तु समुदाये ( वाक्ये ) लक्षणा । स्वबोध्यसंबन्धस्यैव लक्षणापदार्थत्वादित्याहुः (न्या० म० ख० ४ पृ० ११-१२ )। गोपदस्य गोत्वे शक्तिः व्यक्तौ लक्षणा इति मण्डनमिश्राः स्वीचक्रुः । धातोश्च फलावच्छिन्नव्यापारे शक्तिः इति नव्यनैयायिकाः प्राहुः । फले व्यापारे च पृथक् शक्तिः इति शाब्दिका आहुः । तदुक्तम् व्यापारो भावना सैवोत्पादना सैव च क्रिया । कृयोकर्मकतापत्तेन हि यत्नोर्थ इष्यते॥ (वै० सा० कारि० ५ पृ० २५ ) इति । फल एव शक्तिः इति मीमांसकविशेषाः मण्डनादयः आहुः । व्यापारे शक्तिः इति रत्नकोशकृतः प्राचीनतार्किकाः आहुः। तथा च क्रियामात्रं ( न तु फलावच्छिन्नम् ) धात्वर्थः इति प्राञ्चां नैयायिकानामाशयः ( ग० व्यु० का० २)। आख्यातस्य तु कृतौ शक्तिः इति नैयायिकाः प्राहुः । लः कर्मणि च (पाणि० सू० ३।४।६९) इति सूत्रात् कर्तरि कर्मणि भावे च शक्तिः इति शाब्दिका आहुः। व्यापारमात्रे शक्तिरिति मीमांसका आहुः । उत्पादकतायां शक्तिरिति रत्नकोशकृत आहुः । आलंकारिकास्तु जातिगुणक्रियासंज्ञार्थेषु चतुर्विधा शक्तिरित्याहुः । आलंकारिकमतं दर्शितं यथा जातिद्रव्यगुणस्पन्दैधमैः संकेतवत्तया । जातिशब्दादिभेदेन चातुविध्यं परे जगुः ॥ ( श० प्र० श्लो० १८ ) इति । तदर्थश्च गोगवयादीनां गोत्वादिजात्या पश्वाट्यादीनां लालधनादिद्रव्येण धन्यपिशुनादीनां पुण्यद्वेषादिगुणेन चलचपलादीनां च शब्दानां कर्मणा अवच्छिन्न१०८ न्या० को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org