________________
४५६
न्यायकोशः। " वाच्यम् इत्याहुः (प्र० च० ४ पृ. ३८)। जात्याकृतिव्यक्तिः तिसृषु शक्तित्रयम् इति शाब्दिका मन्यन्ते । आकृतावेव शक्तिः इति पतञ्जलिप्रभृतय आहुः । जातादेव शक्तिर्व्यक्तिलाभस्त्वाक्षेपात् इति तौतातिता ( तुतातभट्टानुयायिनः ) प्राभाकराः कुमारिलभट्टादयश्वाहुः । अयं भावः । गोत्वं हि स्वाश्रयं विना अनुपपन्नम् इति स्वाश्रयम् आक्षिपति इति । अत्र अर्थापत्तिराक्षेपः इति भट्टमतम् । समानवित्तिवेद्यत्वमाक्षेपः इति प्राभाकरमतम् इति विज्ञेयम् (.न्या० म० ४ पृ० ६ )। अत्र व्यक्तेः । प्राधान्यानुभवाल्लक्षणा व्यक्तौ । आक्षेपे तूपसर्जनता स्यात् इति भट्टैकदेशिन आहुः । अत्रोक्तं भट्टपादैः आनन्त्यव्यभिचाराभ्यां शक्त्यनेकत्वदोषतः। न व्यक्तावाकृतौ तु स्यात्सर्वमेतत्समञ्जसम् ।। अन्वयव्यतिरेकाभ्यामेकरूपप्रतीतितः । आकृतेः प्रथमं ज्ञाने तस्या एवाभिधेयता ॥ व्यक्त्याकृत्योरभेदाच्च व्यवहारोपयोगिता । लिङ्गसंख्यादि. संबन्धः सामानाधिकरण्यधीः ।। सर्वोपपन्ना च यतस्तस्मात्तत्रैव कल्पयेत् ( जै० सू० वृ० अ० १ पा० ३ सू० ३५) इति । पदानामन्वयविशिष्टे शक्तिः इत्यप्याहुः । अयं भावः । जातौ अन्विते ( अन्वयविशिष्टे वाक्यार्थे ) चाभिधारूपा शक्तिः इति । तत्र प्राभाकरास्तु सिद्धार्थस्यानुभावकत्वं नास्ति इति कार्यत्वान्वितव्यक्तौ ( इतरान्विते ) शक्तिः इत्याहुः (त० दी० पृ० ३२ ) । अत्रोपहसितं श्रीहर्षमित्रैः गुरुधियमभावस्य स्थाने स्थानेभिषिक्तवान् । प्रसिद्ध एव लोकेस्मिन् बुद्धबन्धुः प्रभाकरः ॥ इति । न्यायसिद्धान्तमञ्जरीकारः स्वयमप्युपजहास प्रतारको वर्णव्यत्यासलिपिसादृश्याभ्यां प्रभाकरः इति गृहीतो लोकैः इति युक्तमुत्पश्यामः इति (न्या० म० ४ पृ० ९) । अत्रायमर्थः प्रतारकः इत्यत्र रेफककारयोर्व्यत्यासः । तकारलिप्यां भकारसादृश्यम् । तेन प्रभाकरः इति लोके प्रसिद्धः ( म०प्र० ४ पृ० ४० ) इति । अर्थवादवाक्यानां कार्यतावाचकलिङाद्यघटितत्वेन कार्यत्वाद्यबोधकत्वाच्छाब्दानुभवजनकत्वाभावेनाप्रामाण्यमेव इति तन्मतम् (न्या० म० ४ ) (त० प्र० ४ पृ० २९) (चि० ४) । विध्येकवाक्यतया अर्थवत्त्वात्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org