________________
८५४
न्यायकोशः। ' एकसंबन्धिज्ञानमपरसंबन्धिस्मारकम् इति रीत्या पदार्थस्मारिका । तथा
चायमर्थः । येन रूपेण चोपस्थितयोः पदपदार्थयोः संबन्धज्ञानम् तद्रूपावच्छिन्नज्ञानात्संबन्धांश उद्बुद्धसंस्कारसहकृतात्तद्रूपावच्छिन्नस्मरणम् । यथा हस्तिहस्तिपकयोः पाल्यपालकभावसंबन्धज्ञानेन हस्तिज्ञानाद्धस्तिपकस्मरणम् ( त० प्र० ख० ४ पृ० ३३ )। तथा च शक्तिग्रहः शाब्दबोधजनिकायां पदजन्यपदार्थोपस्थिती सहकारी भवति ( न्या० म०
४) इति । पदपदार्थयोः संबन्धश्च [क] इदं पदममुमर्थ बोधयतु : इत्याकारक ईश्वरसंकेतः (मु० ४) (न्या० म०४ पृ० ३) ( त० सं० )। तदर्थश्च एतत्पदजन्यबोधविषयोयमर्थः इत्याकारकेश्वरेच्छा शक्तिः ( नील० ) इति । एतत्पदजन्यत्वप्रकारतानिरूपितै. तदर्थबोधविशेष्यताशालीच्छा इति वा (त० प्र० ख० ४ पृ० १४ ) ( ग० शक्ति० )। अत्र ईश्वरसंकेतो नामेश्वरेच्छा (न्या०बी० ४ पृ० १९)। ईश्वरसंकेत इत्यस्यायं भावः । द्वादशेहनि पिता नाम कुर्यात् इति श्रुतिः । तथा च द्वादशाहःकालीनपित्राद्युच्चारितनामत्वादिना नामवाच्यः शिशुः इत्याकारकेच्छयेश्वरेण तादृशश्रुतिप्रणयनादाधुनिक. संकेतितचैत्रादिशब्देषु ईश्वरसंकेतोस्त्येव (त० प्र० ४ पृ० १५ ) इति । [ख] अस्माच्छब्दादयमर्थो बोद्धव्यः इत्यनादिसंकेतः ( त० को०)। यथा घटाद्यर्थविशेष्यकघटादिपदजन्यबोधविषयत्वप्रकारक ईश्वरसंकेतः (न्या० बो० ४ पृ० १९)। [ग] इच्छामात्रं शक्तिः इति नव्या आहुः (मु० ४ ) (वात्स्या० २।१।५४ )। तथा च ईश्वरसंकेत एव
न शक्तिः । किं त्वभियुक्तसंकेतमानं शक्तिः इति ( म० प्र० ४ पृ० - ३८ ) । आधुनिके तु संकेतिते न शक्तिः इति संप्रदायः । नव्यास्तु
ईश्वरेच्छैव न शक्तिः । किं तु इच्छैव । तेन आधुनिकसंकेतितेपि सास्ति इति वदन्ति ( मु० ४)। [1] मीमांसकास्तु अभिधा नाम पदार्थान्तरं संकेतग्राह्यम् शक्तिः इत्याहुः ( न्या० म० ३ ) ( त० दी० ) (ग० शक्ति० )। संकेतग्रहजन्यग्रहविषयः इत्यर्थः । मीमांसकमते इयं शब्दसहकारिग्रह विषयः इति ज्ञेयम् (त० प्र० ४ पृ० १४)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org