________________
८५३
न्यायकोशः। ध्वंसस्य संयोगसमानकालीनास्पृश्यस्पर्शादिप्रतियोगिकयावदनादिसंसर्गाभावसहितस्य शुद्धिपदार्थत्वात् । अभिमत्रितपयःपल्लवादावपि समयविशेषावच्छिन्नाभिमन्त्रणध्वंस एव व्यथाद्यपनायकः । तत्तन्मत्रदेवता संनिधिरेव वा । कलमबीजादीनामापरमाण्वन्तभने तत्र चावान्तरजात्यभावे. नियतकलमजातीयादिसिद्धिरपि परमाणुपाकज विशेषादेव । कार्यवृत्तिरूपादिसजातीयस्य पूर्वरूपादिविजातीयस्य परमाणौ पाकजरूपादेरुभयसिद्धत्वात् । यथा हि कलमबीजं यवादिजात्या व्यावय॑ते तथा तत्परमाणवोपि पाकजैरेव इत्याचूहनीयमित्यलं विस्तरेण (चि० २ परिशि० शक्ति० पृ० ३८ )। २ पौराणिकास्तु स्त्रीदेवता शक्तिः । यथा वैष्णवी ब्राह्मी गौरी च इत्याहुः । अत्रोक्तम् इच्छा क्रिया तथा ज्ञानं गौरी ब्राह्मी तु वैष्णवी । त्रिधा शक्तिः स्थिता यत्र तत्परं ज्योतिरोमिति ॥ ( गोरक्षसं० ) ( वराहपु० ) इति । ३ तात्रिकास्तु पीठाधिष्ठातृदेवताविशेषः इत्याहुः । ४ नीतिशास्त्रज्ञास्तु राज्ञः प्रभावोत्साहमन्त्रजातं सामर्थ्यरूपं शक्तित्रयम् इत्याहुः । ५ वृत्तिविशेषः । अर्थस्मृत्यनुकूलः पदपदार्थसंबन्धः । स च पदशक्तिसमयसंगतिसंकेतवाचकत्वादिभिर्व्यवह्रियते ( प्र० प० पृ० ३९ )। अत्र वैयाकरणा आलंकारिकाश्चाहुः । सैषा शक्तिः संयोगादिभिर्नानार्थकशब्देषु नियम्यते इति । तदुक्तं हरिणा संयोगो विप्रयोगश्च साहचर्य विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥ इति । तदर्थश्च एते संयोगादयः शब्दार्थस्यानवच्छेदे संदेहे तदपाकरणद्वारेण विशेषस्मृतिहेतवो निर्णयहेतवः इति । उपस्थितानामनेकेषामेकतरमात्रार्थतात्पर्यनिर्णयद्वारा तन्मात्रार्थविषयकान्वयबोधजनकाः इति भावः (ल० म० पृ० १२)। नैयायिकास्तु प्रकरणादीनामिव संयोगादीनामपि तात्पर्यग्राहकत्वमेव । यथा सशङ्खचक्रो हरिः इत्यादौ शङ्खचक्रादिविशेषणम् इत्याहुः । अत्रेदं विज्ञेयम् । शक्तिग्रहः शाब्दबोधे जननीये पदजन्यपदार्थोपस्थितौ (स्मृतौ ) उपयुज्यते । अयं भावः। शक्तिर्हि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org