________________
न्यायकोशः। साध्यान्यतराभावप्रसञ्जनम् । यथा शब्दः अनित्यः कृतकत्वादित्यत्र यद्यनित्यत्वसहचरितघटधर्मात्कृतकत्वादनित्यः शब्दस्तदा कृतकत्वानित्यत्वसहचरितघटधर्मरूपवत्त्वव्यावृत्त्या शब्दे कृतकत्वस्यानित्यत्वस्य च व्यावृत्तिः स्यात् । आये असिद्धिदेशना । द्वितीये बाधदेशना । एवं शब्दे कृतकत्वसहचरितश्रावणत्वस्य संयोगादावनित्यत्वकृतकत्वसहचरितगुणत्वस्य च व्यावृत्त्या घटे अनित्यत्वं कृतकत्वं च व्यावर्तेत इति दृष्टान्ते साध्यसाधनविकल्पदेशनाभासापीयम् (गौ० वृ० ५।१।४)। अत्र लक्षणे व्याप्तिमपुरस्कृत्य सहचरितधर्माभावेन पक्षदृष्टान्तान्यतरस्मिन्हेतुसाध्यान्यतराभावप्रसञ्जनमित्यन्वयः । अयमर्थः-व्याप्ति मनसि अगृहीत्वैव हेतुसाध्याभ्यां सहचरितो योन्यः कश्चिद्धर्मस्तस्य प्रकृतपक्षे दृष्टान्ते वा अभावं दृष्ट्वा तत्साहचर्यात्साध्यस्य वा हेतोरपि वा अभावकल्पनमपकर्षसमः । यथा शब्दः अनित्य इत्यादेः स्पष्ट एवार्थः । आये असिद्धीत्यत्र आये नाम कृतकत्वरूपहेतोरभावकल्पनपक्षे । असिद्धिदेशना नाम स्वरूपासिद्धिरूपोक्तिः । दोष इति यावत् । प्राप्नोतीत्यर्थः। एवं च स हेतुः स्वरूपासिद्धो भवति । द्वितीये बाधदेशनेतीत्यत्र अनित्यत्वरूपसाध्यस्याभावकल्पनपक्षे बाधरूपोक्तिः । दोष इति यावत् । प्राप्नोतीत्यर्थः । एवमित्यस्य पूर्व यथा पक्षे हेतुसाध्यान्यतराभाव उक्तस्तथेत्यर्थः । शब्दे कृतकत्वेत्यस्य शब्दे कृतकत्वेन सह सहचरितस्य श्रावणत्वस्येत्यर्थः । अस्य व्यावृत्त्या सहान्वयः। संयोगादावित्यादेः संयोगादावनित्यत्वेन कृतकत्वेन च सह सहचरितस्य गुणत्वस्येत्यर्थः । अस्यापि व्यावृत्त्या सहैवान्वयः।व्यावृत्त्येत्यस्य श्रावणत्वस्य गुणत्वस्य च घटे व्यावृत्तेत्यर्थः। घटे अनित्यत्वमित्यादेः घटे श्रावणत्वस्य गुणत्वस्य व्यावृत्त्या अनित्यत्वं कृतकत्वं च व्यावर्तेतेत्यर्थः । दृष्टान्ते इत्यादेः। एवं च घटरूपे दृष्टान्ते साध्यस्य साधनस्य चाभावकल्पनया साध्यसाधनविकल्पदेशनाभासापीयमित्यर्थः । [ग] परोक्तदृष्टान्तसाधर्म्यण पक्षे पराभिमतधर्मान्तरस्याभावसाधनम् । यथा शब्दः अनित्यः कृतकत्वाद्बटवदित्यादौ यदि कृतकत्वेन शब्दो घटवदनित्यः स्यात्तर्हि तेनैव शब्दो घटवदश्रावणोपि स्यादिति ( नील० ४३)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org