________________
न्यायकोशः ।
अन्वाहितम् —— यदेकस्य हस्ते निहितं द्रव्यं तेनापि अनु पञ्चादन्यहस्ते स्वामिने देहीति निहितं तदन्वाहितम् ( मिताक्षरा अ० २ श्लो० ६७ ) । अन्विताभिधानवादः – शक्तिज्ञानाविषयस्य शाब्दबोधाविषयत्वनियम इति वादः ( कृष्ण० शक्ति० ) । भट्टमते च इतरान्वितघटो घटपदशक्य इत्येतादृशमेव शक्तिज्ञानं शाब्दबोधप्रयोजकम् । एवं च शाब्दबोधे पदार्थसंसर्गस्यापि पदशक्यत्वमङ्गीकुर्वन्ति ( ग० शक्ति० ५ ) । एवमेतन्मते वाक्येपि शक्ति स्वीकुर्वन्ति इति विज्ञेयम् । इदं च प्राभाकरमतम् न तु भट्टमतमिति बहवो ग्रन्थकारा वदन्ति ।
५२
अन्वीक्षा — प्रत्यक्षागमाभ्यामीक्षितस्यान्वीक्षणम् । यथा आन्वीक्षिकी न्यायविद्येत्यादावन्वीक्षा ( वात्स्या ० १।१।१ ) । अत्र व्युत्पत्तिः - श्रवणात् अनु ( पश्चात् ) ईक्षा अन्वीक्षा उन्नयनम् (गौ० वृ० १।१।१ ) । अपकर्षः – १ विद्यमानधर्मापचयः । तथा च साध्यसाधनान्यतरस्याभावप्रसञ्जनम् । यथा अपकर्षसमो जातिरित्यादौ ( गौ० वृ० ५।१।४ ) । २ गुणनिष्ठजातिविशेषः । यथा महत्त्वत्वं चापकर्षानाश्रय परिमाणत्वम् इत्यत्रापकर्ष: ( राम ० ११५८ ) । ३ उचितधर्मापेक्षातो हीनता । यथाउत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः इत्यादौ ( मनु० १०।४२ ) । ४ स्वकर्तव्य कालात्पूर्वकाले करणम् । यथा - मरणोत्तरं मृताहे मासि मासि कर्तव्यानां मृताहनिमित्तकमासिकादीनां द्वादशाहेषु एकाहेषु च कर्तव्यत्वोक्तेः सर्वापकर्षः । तदुक्तम् - मुख्यं श्राद्धं मासि मासि अपर्यातावृतुं प्रति । द्वादशाहेन वा कुर्यादेकाहे द्वादशेथ वा इति ( स्मृति: ) । ५ परसूत्रपदानामन्वयार्थं पूर्वसूत्र आकर्षणमिति शाब्दिका वदन्ति (वाच० )। अपकर्षसमः - ( जातिः ) [क] साध्ये धर्माभावं दृष्टान्तात्प्रसञ्जयतोपकर्षसमः । लोष्टः खलु क्रियावानविभुर्दृष्टः काममात्मापि क्रियावानविभुरस्तु । विपर्यये वा विशेषो वक्तव्य इति ( वात्स्या ० ५।१।४ ) । [ख] पक्षदृष्टान्तान्यतरस्मिन्व्याप्तिमपुरस्कृत्य सहचरितधर्माभावेन हेतु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org