________________
न्यायकोशः।
८५१ क्रौञ्चचक्रादयः क्वचित् । तिर्यग्वृत्तिश्च दण्डः स्यात् भोगोन्यावृत्तिरेव च ॥ मण्डलं सर्वतो वृत्तिः पृथग्वृत्तिरसंहतः (शब्दर० ) इति । तद्भेदादिकं तु शुक्रनीतिसारादौ ज्ञेयम् । व्रतम्-१ भक्षणविशेषनियमः। पुण्यसाधनीभूत उपवासादिनियमविशेषः । तथा हि । व्रतं च सम्यक्संकल्पजनितानुष्ठेयक्रियाविशेषरूपम् । तत्र प्रवृत्तिनिवृत्त्युभयरूपम् । तत्र द्रव्यविशेषभोजनपूजादिकं प्रवृत्तिरूपम् । उपवासादिकं च निवृत्तिरूपम् । तच्च निवृत्तिरूपम् नित्यम् नैमित्तिकम् काम्यं चेति त्रिविधम् । तत्र नित्यमेकादश्यादि व्रतम् । नैमित्तिकं चान्द्रायणादि व्रतम् । काम्यं तत्तत्तिथ्युपवासादिरूपम् । अत्रोक्तं भविष्यत्पुराणे सम्यक्संसाधनं कर्म कर्तव्यमधिकारिणा । निष्कामेन महावीर काम्यं कामान्वितेन च ॥ इति । अत्र विविधपुराणोक्ता व्रतभेदास्तु हेमाद्रौ व्रतखण्डे व्रतार्कादौ च दृश्याः । २ मानसव्यापारो व्रतशब्दार्थः (जै० सू० वृ० अ० ६ पा० २ सू० २२)। ३ चर्या । भस्मस्नानशय्योपहारजपप्रदक्षिणानि व्रतम् (सर्व० सं० पृ० १६९ नकु० )।
शक्तम्-शक्तिमत् । तच्च निरूपकतासंबन्धेन शक्तिमत् । यथा घटपटादिपदं कम्बुग्रीवादिमदर्थविशेषे शक्तम् ( न्या० बो० ४ पृ० १९)।
शक्तिश्चात्र वक्ष्यमाणा पदशक्तिमा॑ह्या । समर्थम् इति काव्यज्ञा आहुः । शक्तिः-१ [क] कारणनिष्ठः कार्योत्पादनयोग्यो धर्मविशेषः। स च धर्मः
प्रतिबन्धकाभावादिरूपकारणत्वात्मकः (त०दी० ४ पृ०४६)। यथा वह्नौ दाहानुकूला शक्तिः । अयं भावः । प्रतिबन्धकाभावस्य कार्यमानं प्रति कारणत्वेन दाहं प्रति तदुत्तेजकाभावविशिष्टमणिः प्रतिबन्धकः तदभावः कारणम् इति कार्यकारणभावोवश्यं स्वीकार्यः । तथा च तादृशकारणत्वरूपैव शक्तिः इति (चि० २ परिशिष्ट० पृ० ३४ ) ( नील० पृ० ४६ )। [ख] कारणत्वा । तच्च स्वस्वव्याप्येतरसकलसंपत्ती कार्याभावव्यापकाभावप्रतियोगित्वम् (चि० २)। [ग] मीमांसक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org