________________
न्यायकोशः। अपेक्षाबुद्धिजन्यत्वं वा । यथा द्वित्वत्रित्वादीनां व्यासज्यवृत्तित्वम् (ग० व्यु० का० १)। व्युत्पत्तिः–१ विशेषणोत्पत्तिः । २ शास्त्रजन्यः शब्दार्थज्ञानादिसंपाद्यः
संस्कारविशेषः । ३ शब्दानामर्थबोधकशक्तिः । ४ यां बुद्धिमासाद्य पदार्थविशेषबोधः सा ( चि० २ पृ० १६ )। ५ शब्दशक्तिप्रहः ( नील० ४ पृ० २९ )। यथा व्युत्पित्सु लो गोपदस्य गोत्वविशिष्टे शक्तिः अश्वपदस्याश्वत्वविशिष्टे शक्तिः इति व्युत्पद्यते (त० दी० ४) इत्यादौ व्युत्पत्तिः। ६ विग्रहवाक्यम् । यथा पदस्यार्थः पदार्थः इति व्युत्पत्तिः (त० दी० १) इत्यादौ व्युत्पत्तिशब्दस्यार्थः । ७ व्यवहारः । यथा लोकव्युत्पत्तिरित्यत्र व्युत्पत्तिशब्दस्यार्थः ( नील० )। ८ नियमः । यथा पदार्थः पदार्थेनैवान्वेति न तु पदार्थतावच्छेदकेन इति व्युत्पत्तिः इत्यादौ व्युत्पत्तिशब्दस्यार्थः । यथा वा नव्यमते यत्र समभिव्याहृतपदार्थतावच्छेदकफलाश्रयत्वबोधः तत्र द्वितीया इति
व्युत्पत्तिः इत्यादौ व्युत्पत्तिशब्दस्यार्थः ( त० प्र० ४ पृ० ८४ )। व्युत्यसादनम् -कपालेभ्यः पुरोडाशं पृथक्कृत्यान्तवेद्यवस्थापनम् ( जै०
न्या० अ० १० पा० १ अधि० ११)। व्यूहः-१ निःश्वासादिः (गौ० वृ० ३।१।३१)। यथा मतान्तरे मानुषादि
शरीरपरीक्षणे गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ( गौ० ३।१।३१ ) इत्यत्र व्यूहशब्दस्यार्थः । २ प्रतिहतस्य परावर्तनम् (गौ० पृ० ४।२।२० )। यथा अव्यूहाविष्टम्भविभुत्वान्याकाशधर्माः (गौ० ४।२।२० ) इत्यत्र व्यूहशब्दस्यार्थः । ३ वासुदेवसंकर्षणप्रद्युम्नानिरुद्धसंज्ञकश्चतुर्विधो व्यूहः इति रामानुजीया वदन्ति ( सर्व० पृ० ११७ रामा० )। ४ समूहः इति काव्यज्ञा आहुः । ५ निर्माणम् । ६ सम्यक तर्कः। ७ देहः । ८ सैन्यम् । ९ नीतिशास्त्रज्ञास्तु युद्धार्थं सैन्यनिवेशविशेष इत्याहुः। अत्रोक्तम् । व्यूहभेदाश्च चत्वारो दण्डो भोगस्तु मण्डलम्। असंहतश्च निर्णीता नीतिसारादिसंमताः ॥ अन्येपि प्रकृतिव्यूहाः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org