________________
न्यायकोशः। ३ प्रयोजनम् । यथा एतद्विशेषणदानस्य व्यावृत्तिः कथ्यते इत्यादौ
व्यावृत्तिशब्दस्यार्थः प्रयोजनम् । व्यासः-१ विस्तारः ( अमरः ३।२।२२ ) । यथा समासव्यासयोगतः
इत्यादौ (प्र० च० परि० २ पृ० ५४ )। २ वैयाकरणास्तु [क] समासादिसमानार्थकं विग्रहवाक्यम् । यथा राजपुरुष इत्यत्र राज्ञः पुरुषः इति व्यासवाक्यम् इत्यादौ व्यासशब्दस्यार्थः। [ख] पदानां समासाभावः इत्यप्याहुः । ३ सत्यवत्यां पराशराजातः श्रीनारायणस्य सप्तदशोवतारविशेषः ( ब्रह्मवै० पु० अ० ४)। यथा व्यासो नारायणः साक्षात् इत्यादौ व्यासशब्दस्यार्थः । स च उत्सन्नशाखं प्रनष्टं च वेदं संकलितवान् अष्टादशपुराणानां ब्रह्मसूत्राणां च कर्ता इति विज्ञेयम् । तदुक्तम् अष्टादशपुराणानां कर्ता सत्यवतीसुतः इति । भागवते चोक्तम् सतः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुसोल्पमेधसः ॥ (भाग० १।३।२१) इति । ४ ततोन्यो मुनिविशेषः । तत्रोक्तम् प्रह्लादनारदपराशरपुण्डरीकव्यासाम्बरीषशुकशौनकभीष्मदाभ्यान् । रुक्माङ्गदार्जुनवशिष्ठबिभीषणादीन् पुण्यानिमान्परमभागवतान स्मरामि ॥ इति । ५ मानविशेषः ( परिमाणम् ) ( शब्द० र०)। ६ लीलावतीकारस्तु वृत्तक्षेत्रस्य मध्यस्थरेखा । यथा व्यासे भनन्दामिहते इत्यादी इत्याह । ७ पौराणिकास्तु पुराणपाठको विप्र इत्याहुः । तदुक्तम्
य एवं वाचयेद्विप्रः स ब्रह्मन् व्यास उच्यते इति । व्यासङ्ग:-[क] कार्यान्तरत्यागेनैकपरत्वम् । [ख] मनसो विषयान्त
रानासक्तिः। [ग] इन्द्रियाणां स्वस्वविषयसंबन्धे सति यत्किचिदिन्द्रिय
जन्यज्ञाने सत्यपीन्द्रियान्तरजन्यज्ञानाभाव इति केचिद्वदन्ति । व्यासज्यवृत्तित्वम्-१ स्वसमानाधिकरणभेदप्रतियोगितावच्छेदकत्वम्
( ग० २ चतु० मिश्र० )। समानाधिकरणभेदप्रतियोगितावच्छेदकत्व : तादात्म्य एतदुभयसंबन्धेन यत्किचित्पदार्थविशिष्टत्वम् इत्यर्थः । यथा
उभयत्वस्य व्यासज्यवृत्तित्वम् । २ अपेक्षाबुद्धिविशेषविषयत्वम् १०७ न्या० को.
Nilili
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org