________________
न्यायकोशः। व्यावृत्तत्वम्-१ अवृत्तित्वम् । यथा यस्तूभयस्माद्व्यावृत्तः स त्वसाधारणो
मतः ( भा० ५० श्लो० ७४ ) इत्यादौ सपक्षविपक्षव्यावृत्तो हेतुरसाधारणः इत्यादौ च व्यावृत्तत्वमवृत्तित्वम् । २ विरोधः । यथा अनुवृत्तत्वव्यावृत्तत्वाभ्यां वह्नितदभावोपस्थापकस्य धूमस्य ( दीधि० ) इत्यादौ व्यावृत्तत्वशब्दस्यार्थो विरोधः (ग० सव्य० पृ० ९)। ३ कचित् अन्योन्याभावप्रतियोगित्वम् । यथा नराणां क्षत्रियः शूरः नरेषु वा इत्यत्र निर्धारणविभक्त्यर्थो व्यावृत्तत्वम् । इदं च अभेदान्वयि विधेयसमभिव्याहारस्थले विज्ञेयम् (ग० व्यु० का० ६ पृ० ११४ )। अत्र विशेषस्तु निर्धारणशब्दव्याख्याने दृश्यः । ४ अत्यन्ताभावप्रतियोगित्वम् । यथा नराणां क्षत्रिये शौर्यम् नरेषु वा इत्यत्र निर्धारणविभक्त्यर्थो व्यावृत्तत्वम् । इदं तु भेदान्वयि विधेयसमभिव्याहारस्थले विज्ञेयम् (ग० व्यु० का० ६ पृ० ११४ )। ५ इतरभेदानुमितिविशेष्यत्वम् । यथा गौरितरेभ्यो व्यावृत्ता इत्यादौ गोया॑वृत्तत्वम् । यथा वा स तु विशेषः स्वत एव व्यावृत्तः (मु० १ पृ० ३६-३७ ) इत्यादौ विशेषपदार्थस्य व्यावृत्तत्वम् । ६ काव्यज्ञास्तु निवृत्तत्वम् ( कुमा० टी० )। यथा व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ( कुमार० स० २ श्लो० ३५) इत्यादी इत्याहुः । ७ कृतवरणत्वम् इति याज्ञिका
आहुः ( अमरः ३।१।९२ )। व्यावृत्तिः-१ [क] तत्तद्धर्मावच्छिन्नेतरभेदः (नील० पृ० ५)।
यथा व्यावर्तकस्यैव लक्षणत्वे व्यावृत्तावभिधेयत्वांदी चातिव्याप्तिः (त० दी० ) इत्यादौ व्यावृत्तिशब्दस्यार्थः । [ख] इतरभेदानुमितिः । यथा व्यावृत्तिर्व्यवहारो वा लक्षणस्य प्रयोजनम् इत्यत्र व्यावृत्तिशब्दस्यार्थः पृथिवीतरेभ्यो भिद्यते इत्यनुमितिः। तथा हि गन्धाभाव इतरत्वव्यापकत्वग्रहे सति गन्धवती पृथिवी इति पक्षधर्मताग्रहे पृथिवीतरेभ्यो भिद्यते इत्यनुमितिरुत्पद्यते सैव व्यावृत्तिः ( वाक्य० पृ० २)। २ अत्यन्ताभावः। यथा यड्यावृत्त्या यस्य साधनस्य साध्यं निवर्तते स धर्मस्तत्र हेतावुपाधिः ( चि० २ पृ० २८) इत्यादौ व्यावृत्तिशब्दस्यार्थोत्यन्ताभावः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org