________________
८४७.
न्यायकोशः। पृ० १६२)। व्याप्यत्वासिद्धिश्च साध्याप्रसिद्धि साधनाप्रसिद्धि अव्यभिचरितसामानाधिकरण्याभाव इत्यादिभेदेनानेकविधा ( दीधि० २ पृ० २१८) ( गौ० वृ० १।२।८ ) (मु० ) ( दि० २ पृ० १६२) (वै० वि० ३।१।१५ )। तथा च साध्याप्रसिद्धिहेत्वप्रसिद्धिसाधनाप्रसिद्धिव्याप्तिविशिष्टपक्षधर्मतादिविरहादयश्च व्याप्यत्वासिद्धिप्रभेदा एव नातिरिक्ताः ( दीधि० २ पृ० २१७-२१८ ) ( न्या० म० २ पृ० २१)। व्याप्यत्वासिद्धिव्याप्योपि व्याप्यत्वासिद्धिरेव न पृथग्भूतः
इति । शिष्टं तु हेत्वाभासशब्दव्याख्याने दृश्यम् । व्याप्यवृत्तित्वम्-[क] प्राचीनमते स्वसमानाधिकरणात्यन्ताभावा
प्रतियोगित्वम् ( दीधि० )। यथा घटत्वद्रव्यत्वादीनां व्याप्यवृत्तित्वम् । [ख] नवीनमते तु अनवच्छिन्नाधारतावत्त्वम् (ग० पक्ष०)। [ग] निरवच्छिन्नवृत्तिकत्वम् (ग० २ चक्र० )। यथा रूपस्य व्याप्य
वृत्तित्वम् । व्यावर्तकम् - १ आश्रयाणां परस्परभेदानुमितिजनकम् । यथा विशेष
स्तत्तत्परमाणूनां व्यावर्तकः । तथा हि। अयं पृथिवीपरमाणुरितरपरमाणुभ्यो भिद्यते एतद्विशेषात् इत्यनुमाने विशेषस्य हेतुत्वं बोध्यम् ( वाक्य० पृ० २२)। यथा वा सास्नाविमत्त्वं महिष्यादेावर्तकम् । इतरभेदविधेयकानुमितिजनकतावच्छेदकविषयताविशेषाश्रयः इति तदर्थः ( नील० १ पृ० ४) । २ कचित् विशेष्यतावच्छेदकसमानाधिकरणाभावप्रतियोगि। एतच्च व्यावर्तकं द्विविधम् विशेषणम् उपलक्षणं चेति। तत्राद्यं यथा पुरुषादौ वर्तमानकालावच्छेदेन विद्यमानो दण्डादिः । द्वितीयं यथा जटाभिस्तापस इत्यादौ तापसादेः कालान्तरीणजटादिकं व्यावर्तकम् ( ग० व्यु० का० ३ पृ० ९१ )। शिष्टं तु तृतीया विशेषण उपलक्षण एतच्छन्दव्याख्यानेषु दृश्यम् ।। व्यावहारिकम् – ( सत्त्वम् ) व्योमादेर्व्यावहारिकम् ( सर्व० सं० पृ०
४४६ शां० )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org