________________
न्यायकोशः। व्यभिचारितासंबन्धेन तादृशोपाधिविशिष्टं वह्निमत्त्वं व्याप्यत्वासिद्धम् इति भावः। उपाधित्वज्ञानेन व्यभिचारानुमित्या व्याप्तिग्रहप्रतिबन्धः फलम् ( वाक्य० २ पृ० १८ )। अत्रानुमानप्रकारश्च वह्निधूमव्यभिचारी धूमव्यापकार्टेन्धनसंयोगव्यभिचारित्वाद्धटत्वादिवत् । यो यद्व्यापकव्यभिचारी सोपि तव्यभिचारी भवतीति ( न्या० बो० २-१८ )। अत्र च पक्षस्यैव विपक्षत्वप्राप्त्या तत्र विद्यमानो हेतुरनैकान्तिकोपि भवति इति मतान्तरम् (प्र० च० पृ० ३२ ) (प्र० प्र०)। अत्रायमर्थः । धूमव्यापकत्वमार्टेन्धनसंयोगे गृहीतं चेत् धूम आर्द्रन्धनसंयोगव्याप्यत्वं तुल्यवित्तिवेद्यतया गृह्यते । एवम् वह्नेरव्यापकत्वमार्टेन्धनसंयोगे गृहीतं चेत् वह्नौ तदव्याप्यत्वं गृह्यते । तदेव व्यभिचरितत्वम् । अर्थात् उपाधिव्यभिचरितत्वं साधने गृहीतं चेत् उपाधिभूताइँन्धनसंयोगव्याप्यधूमव्यभिचरितत्वं गृह्यत एव इति । एवं च प्रकृतानुमानहेतुभूतपक्षे वह्नौ साध्यव्यभिचारोत्थापकतया दूषकत्वमुपाधेः फलम् । तथा च धूमाभाववदवृत्तित्वाभावरूपे धूमव्यभिचारे गृहीते वह्नौ धूमाभाववदवृत्तित्वरूपव्याप्तिज्ञानप्रतिबन्धः फलम् । न च व्याप्यत्वासिद्धर्व्यभिचाराभेद इति वाच्यम् । धूमाभाववद्वृत्तित्वाभावाभावत्वेन व्याप्यत्वासिद्धित्वम् धूमाभाववद्वृत्तित्वत्वेन व्यभिचारत्वम् इति भेदात् (न्या० बो० २ पृ० १८-१९)। शिष्टं तु उपाधिशब्दव्याख्याने दृश्यम्। वेदान्तिनस्तूदाजहुः । व्याप्यत्वासिद्धो द्विविधः साध्यसंबन्धरहितः सोपाधिकसंबन्धश्च । तत्राद्यो यथा सर्व क्षणिक सत्त्वात् इति । अत्र सर्वस्य पक्षत्वेन पक्षातिरिक्तसपक्षाभावात् साध्यसंबन्धाभावो ज्ञेयः। द्वितीयो यथा वैधी हिंसा पापसाधनं हिंसात्वाब्राह्मणहिंसावत् इति । अत्र हिंसात्वपापसाधनत्वयोः
संबन्धे निषिद्धत्वमुपाधिः (प्र० च० पृ० ३१)।। व्याप्यत्वासिद्धिः-( हेत्वाभासः हेतुदोषः ) [क] आश्रयासिद्धि
स्वरूपासिद्धि एतदुभयभेदद्वयविशिष्टासिद्धिः (म० प्र० २ पृ० २७)। यथा वह्निसाध्यकधूलिपटले धूमनिष्ठव्याप्त्यभावो व्याप्यत्वासिद्धिः (न्या० म० २ पृ० २१)। [ख] सविषयवृत्तिप्रकृतसाध्यसाधन
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org