________________
४४
न्यायकोशः। वच्छेदकधर्मान्तराघटितधर्मस्यैव व्याप्यतावच्छेदकत्वम् इति नियमः । अत एव केषांचिन्मते वह्निमान्नीलधूमादित्यादौ धूमत्वस्य व्याप्यतावच्छेदकत्वसंभवेन तद्घटितनीलधूमत्वं गुरुतया न व्याप्यतावच्छेदकम् (मु० २ पृ० १६२ ) । अत्र नियमे धर्मे तदघटितत्वं च तदविषयकप्रतीतिविषयत्वम् ( दीधि० २ पृ० ५९ )। व्याप्यत्वासिद्धो द्विविधः एक्को व्याप्तिप्राहकप्रमाणाभावमात्रात् अपरस्तूपाधिसद्भावात् । तत्र प्रथमो यथा यत्सत्तत्क्षणिकं यथा प्रदीपादि । द्वितीयो यथा ऋत्वन्तवर्तिनी हिंसा अधर्मः हिंसात्वात्क्रतुबाह्यहिंसावत् इति ( त० भा० ) (प्र० प०) (प्र० च० पृ० १९) । अत्र निषिद्धत्वमुपाधिः । अन्यत्र चोक्तम् । व्याप्यत्वासिद्धो द्विविधः साध्येनासहचरितः सोपाधिकसाध्यसंबद्धश्च । सोपाधिके व्याप्यत्वासिद्धशब्दस्य समन्वयः क्रियते। व्याप्यत्वस्यासिद्धिर्यस्मात् इति व्युत्पत्त्योपाधिरेव व्याप्यत्वासिद्धिस्तद्वान् इति । सोपाधिकसाध्यसंबद्धो हेतुश्च अनैकान्तिकोपि इति मतान्तरम् (प्र० प्र०)। प्रथमो यथा यत्सत्तक्षणिकं यथा घनः संश्च विवादास्पदीभूतः शब्दादिः इति । अत्र हि शब्दादिः पक्षः। तत्र क्षणिकत्वं साध्यम् । सत्त्वं हेतुः । न च अस्य हेतोः क्षणिकत्वेन सह व्याप्ती प्रमाणमस्ति इति विज्ञेयम् ( त० भा० हेत्वा० पृ० ४७ )। द्वितीयो यथा स श्यामो मैत्रीतनयत्वात् परिदृश्यमानमैत्रीतनयस्तोमवत् इत्यत्र मैत्रीतनयत्वात् इति हेतुाप्यत्वासिद्धः । अत्र मैत्रीतनयत्वेन श्यामत्वं साध्यम् । तेन मैत्रीतनयत्वं श्यामत्वे न प्रयोजकम् । किंतु शाकाद्याहारपरिणाम एव । प्रयोजकश्च उपाधिः इत्युच्यते । अतः मैत्रीतनयत्वस्य श्यामत्वेन संबन्धे शाकाद्याहारपरिणाम उपाधिः । यथा अग्नेर्धमसंबन्ध आर्टेन्धनसंयोगः । अत्रोपाधिसंबन्धाद्व्याप्तिर्नास्ति (त० भा० हेत्वा० पृ० ४७ ) । यथा वा पर्वतो धूमवान् वह्निमत्त्वादित्यत्र वह्निमत्त्वं व्याप्यत्वासिद्धम् ( त० सं० ) ( त० भा० २ पृ० ४७ ) । अत्राट्टैन्धनसंयोग उपाधिः । भवति चाट्टैन्धनं साध्यस्य धूमस्य व्यापकम् साधनस्य वढेः अव्यापकं च इति (प्र० प्र० ) ( त० सं० )।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org