________________
न्यायकोशः। वचनं पूर्व व्यापकस्य ततः परम् । एवं परीक्षिता व्याप्तिः स्फुटीभवति तत्त्वतः ॥ इति । यत्र धूमस्तत्राग्निः इति साहचर्यनियमो व्याप्तिः । एतद्वाक्ययोजना त्वित्थम् । यत्र धमस्तत्राग्निः इतीत्यत्र इतिपदं तादृशवाक्यपरम् । तत्तात्पर्यग्राहकं यत्रेत्यादि वाक्यम् । इतिपदार्थस्य च बोध्यतासंबन्धेन साहचर्यनियमेन्वयः ( वाक्य० २ पृ० १३ ) इति । साहचर्यनियम इत्यस्यार्थश्च साहचर्य सामानाधिकरण्यम् । तस्य नियमः। हेतुसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यम् इत्यर्थः ( त० दी० २ पृ० २० )। तथा च हेतौ नियतसामानाधिकरण्यम् । तच्च साधनव्यापकसामानाधिकरण्यम् (दीधि० २) (प्र० प्र०)। एवं च हेतोापकं यत्साध्यं तत्सामानाधिकरण्यं हेतौ व्याप्तिः इति सुगमः पर्यवसितोर्थः। यथा पर्वतो वह्निमान् धमादित्यादौ सद्धेतौ धूमस्य व्यापको वह्निः तत्सामानाधिकरण्यं धूमे वर्तते इति लक्षणसमन्वयो बोध्यः । अत्र धूमसमानाधिकरणो योत्यन्ताभावः घटात्यन्ताभावः न तु वह्नयत्यन्ताभावः । तथा च तदप्रतियोगी वह्निः तत्सामानाधिकरण्यं धमे वर्तते । धूमवान्वह्नरित्यादौ असद्धेतौ तु धूमसामान्याभावस्यापि हेतुसमानाधिकरणतया तत्प्रतियोग्येव धूमः इति नातिव्याप्तिः (नील० २ पृ० २०) । अथ वा नियतसाहचर्य व्याप्तिः । नियतत्वं व्यापकत्वम् । साहचर्य सामानाधिकरण्यम् । तथा च धमनियतवह्निसामानाधिकरण्यम् (न्या० बो० २ पृ० १४ ) इति । यद्वा साहचर्य साध्यनिष्ठहेतुसामानाधिकरण्यम् । तन्नियमस्तन्मात्रसत्त्वम् । तद्विरोध्यसत्त्वम् इति यावत् । तथा च साध्यनिष्ठहेतुव्यापकत्वं स्वाश्रयसामानाधिकरण्यसंबन्धेन हेतुसंबद्धम् । व्यापकताश्रयसामानाधिकरण्यम् इति पर्यवसितोर्थः ( वाक्य० २ पृ० १३)। वेदान्तिनस्तु साहचर्य हेतोः साध्येन संबन्धमात्रम् । तस्य नियमो नियतत्वम् । अव्यभिचरितसंबन्ध इत्यर्थः इत्याहुः (प्र० च० पृ० २९) । टीकाकृतो वेदेशतीर्थचरणास्तु साहचर्य स्वदेशकालविशेषगतस्य हेतोः स्वदेशकालविशेषगतेन साध्येन संबन्धमात्रम् । न तु सामानाधिकरण्यम् । अधोदेशनदीपूरादाव१०६ न्या० को
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org