________________
८४०
न्यायकोशः ।
1
1
( दि० २ व्याप्तिनि० ) । ( ९ ) प्रतियोगिव्यधिकरणस्वसमानाधिकरणात्यन्ताभावाप्रतियोगिना सामानाधिकरण्यम् । (१०) यत्समाना - धिकरणान्योन्याभावप्रतियोगि यद्वन्न भवति तेन समं तस्य सामानाधिकरण्यं वा । अन्यवृत्तिवह्नितद्वतोरन्यवृत्तिधूमवन्निष्ठात्यन्ताभावान्योन्याभावप्रतियोगित्वाद्व्यधिकरणवहिधूमयोर्न व्याप्तिः । किं तु तत्तद्भूमस्य समानाधिकरणतत्तद्वह्निना ( चि० २ पृ० ६-७ ) । ( ११ ) स्वसमानाधिकरणान्योन्याभावाप्रतियोगि यद्वत् तत्कत्वं वा । ( १२ ) यावत्स्वसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यत् तत्प्रतियोगिकात्यन्ताभावसमानाधिकरणं यत् तेन समं सामानाधिकरण्यम् । समुदायार्थस्तु साधन समानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदका यावन्तो धर्माद्धर्मावच्छिन्नसमानाधिकरणात्यन्ताभावप्रतियोगितावच्छेदकाः तद्धर्मावलीढसामानाधिकरण्यम् इति । एतदेव यावत्स्वव्यभिचारिव्यभिचारिसाध्यसामानाधिकरण्यम् अनौपाधिकत्वम् गीयते ( चिं० २ पृ० ८ ) । ( १३ ) यद्वा यावद्यत्समानाधिकरणात्यन्ताभावाप्रतियोगिप्रतियोगिकात्यन्ताभावासामानाधिकरण्यं यस्य तस्य तदेवानौपाधिकत्वरूपा व्याप्तिः (चि०२ पृ० ६-८ ) । समुदितार्थश्च साध्यव्यापकतावच्छेदकावच्छिन्नप्रतियोगिताकात्यन्ताभावत्वव्यापकस्व सामानाधिकरण्यसामान्याभावकत्वम् इति ( दीधि० २ ० ५७ ) | ( १४ ) यद्वा यत्संबन्धितावच्छेदकरूपवत्त्वं यस्य तस्य सा व्याप्तिः ( चि०२ पृ० ८ ) । यथा वह्निसाध्यकधूमकस्थले वह्निमान् धूमादित्यादौ यत्र धूमस्तत्राग्निः इति साहचर्य नियमो व्याप्तिः ( त० भा० ) ( मू० म० १ ) ( भा० प० ) ( मु० २ ) ( त० सं० ) । तथा हि धूमस्य वह्निसंबन्धित्वे धूमत्वमवच्छेदकम् । धूममात्रस्य वह्निसंबन्धित्वात् लक्षणसमन्वयः । वह्नेस्तु धूमसंबन्धे न वह्नित्वमवच्छेदकम्। वह्नेर्धूमासंबन्धिनि तप्तायः पिण्डे गतत्वात् । अतस्तत्र नातिव्याप्तिः ( चि०२ पृ० ८ ) । अत्र यदन्यूनवृत्तिसाध्यम् तत्त्वम् स्वव्यापकसाध्यसंबन्धित्व पर्यवसन्नम् इति लघुभूतः परिष्कारो विज्ञेयः ( दीधि ० २ ० ६१ ) । अत्र नियमः व्याप्यस्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org