________________
.
८३९
न्यायकोशः। तथा अवच्छेदकत्वमिह पारिभाषिकमेव प्रतियोगितावच्छेदकानतिरिक्तवृत्तित्वरूपं ग्राह्यम्। तच्च तदवच्छिन्नप्रतियोगिताकाभाववदसंबद्धस्वविशिष्टसामान्यकत्वम्। अथ वा स्वविशिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छेददकतत्कत्वम् । यद्वा स्वविशिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छेदकाच्छेद्यत्वम् ( दीधि० २ अवच्छेदकनिरु० पृ० ४२ )। अत्र यन्न भवति इत्येतत्पर्यन्तेन ग्रन्थेन यत्पदार्थस्य व्यापकत्वं बोध्यते । तेन व्यापकसामानाधिकरण्यं व्याप्तिः इति फलितम् । एवम् उत्तरत्रापि ज्ञेयम् । इयमेव सर्वोपसंहारप्रवृत्तव्याप्तिः इत्युच्यते । तदर्थस्तु सकलहेत्वधिकरणान्तर्भावेन साध्यसत्त्वनिर्वाह्यव्याप्तिः इति ( ग० बाध०)। (५) प्रतियोग्यसमानाधिकरणयद्रूपविशिष्टसमानाधिकरणात्यन्ताभावप्रतियोगितानवच्छेदको यो धर्मः तद्धर्मावच्छिन्नेन येन केनापि समं सामानाधिकरण्यं तद्रूपविशिष्टस्य तद्धर्मावच्छिन्नयावन्निरूपिता व्याप्तिः। स्वावच्छिन्नत्व साध्यतावच्छेदकसंबन्धावच्छिन्नत्व एतदुभयाभाववत्तादृशप्रतियोगितासामान्यको यो धर्मः तदवच्छिन्नसामानाधिकरण्यम् इति फलितोर्थः (ग० सिद्धा०)। दण्ड्यादौ साध्ये परंपरासंबद्धं दण्डत्वादिकमेव साध्यतावच्छेदकम् । अतः तत्तद्दण्ड्यभावमादाय नाव्याप्तिः (दीधि० २ पृ० ३२)। (६) विशेषणताविशेषावच्छिन्नयद्धर्मविशिष्टसंबन्धिनिष्ठाभावप्रतियोगितानवच्छेदकावच्छेद्यत्वं तत्संबन्धावच्छिन्नसाधनसमानाधिकरणात्यन्ताभावप्रतियोगितासामान्ये नास्ति साधने तद्धर्मविशिष्टसामानाधिकरण्यं व्याप्तिः (दीधि०२ पृ० ३२-४३)। (७) यादृशप्रतियोगितावच्छेदकावच्छिन्नसाध्यतावच्छेदकसंबन्धावच्छिन्ननिरूपकताकाधिकरणतावदन्यत्वं हेतुतावच्छेदकसंबन्धावच्छिन्नहेतुतावच्छेदकावच्छिन्ननिरूपकताकाधिकरणतावतः तन्निरूपितसाध्यतावच्छेदकताघटकसंबन्धावच्छिन्नावच्छेदकताशून्यं यत् साध्यतावच्छेदकम् तदवच्छिन्ननिरूपकताकाधिकरणतावद्वृत्तिवृत्ति यत् हेतुतावच्छेदकं तद्वत्त्वम् (वै० वि० ३।१।१४ पृ० १५२)(मु०२)। (८) यद्धर्मविशिष्टानधिकरणत्वं हेत्वधिकरणस्य तद्धर्मभिन्नसाध्यतावच्छेदकावच्छिन्नसामानाधिकरण्यम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org