________________
ટરેટ
न्यायकोशः। द्यात्मकान् व्यधिकरणधर्मावच्छिन्नाभावान् यथायथमादाय पूर्वोक्तानां सर्वेषां चतुर्दशलक्षणानां समन्वयः कर्तव्यः । अत्राधिकं तु गदाधर्यादौ चतुर्दशलक्षण्यां दृश्यम् । विस्तरभयान्नात्र दर्शितम् इति विरम्यते ।
अथ सिद्धान्तव्याप्तयः प्रदर्श्यन्ते । तत्र सिद्धान्तसिद्धान्वयव्याप्तिस्तु - (१) व्यापकस्य व्याप्याधिकरण उपाध्यभावविशिष्टः संबन्धः । इयं
सिद्धान्तसिद्धा व्याप्तिश्च हेतुनिष्ठा साध्यनिरूपिता च अन्वयव्याप्तिः - इत्युच्यते इति विज्ञेयम् (न्या० बो० २ पृ० १४)। (२) अव्यभि
चरितसाध्यसामानाधिकरण्यम् । अस्ति चेदं पर्वतो वह्निमान् धूमवत्त्वात् इत्यादिसद्धेतौ । यत्र यत्र धूमस्तत्र वह्निः इति नियमस्य सत्त्वात् । नास्ति
चेदं पर्वतो धूमवान् वह्निमत्त्वात् इत्याद्यसद्धेतौ । यत्र यत्र वह्निस्तत्र तत्र • धूमः इति नियमस्यासत्त्वात् । तप्तायःपिण्डे वह्निसत्त्वेपि धूमासत्त्वात्
( त० कौ० २ पृ० ११ )। (३) साधनत्वाभिमतसमानाधिकरणान्योन्याभावप्रतियोगितानवच्छेदकसाध्यकत्वम् ( न्या० सि० दी० पृ० ५५ )। यथा वह्निमान धूमात् इदं वाच्यं ज्ञेयत्वादित्यादौ सद्धेतौ व्याप्तिः । अस्य समन्वयः क्रियते। वह्निमान्धूमादित्यादौ साधनत्वाभिमतः धूमः । तस्य समानाधिकरणः तस्याधिकरणे पर्वते वर्तमानः अन्योन्याभावः । न हि वह्निमद्भदो भवति किं तु घटादिमद्भेद एव । तस्य प्रतियोगिताया अवच्छेदको घटादिरेव । अनवच्छेदकस्तु साध्यात्मको वह्निः । तत्कत्वं तत्सामानाधिकरण्यम् धूमेस्ति इति । इदं वाच्यं ज्ञेयत्वात् इत्यादिकेवलान्वयिसद्धेतस्थले तु ज्ञेयत्वाधिकरणं घटः । तत्र वर्तमानोन्योन्याभावः । न हि वाच्यत्ववद्भेदः किं तु पटत्ववद्भेदः । तस्य प्रतियोगिताया अवच्छेदकं पटत्वम् । अनवच्छेदकं तु साध्यात्मकं वाच्यत्वम्। तत्कत्वं ज्ञेयत्वेस्ति इति । ( ४ ) प्रतियोग्यसमानाधिकरणयत्समानाधि
करणात्यन्ताभावप्रतियोगितावच्छेदकावच्छिन्नं यन्न भवति तेन समं - तस्य सामानाधिकरण्यम् । अत्र भावत्वं च इदमिह नास्ति इदमिदं न - भवति इति प्रतीतिनियामको भावाभावसाधारणः स्यरूपसंबन्धविशेषः । .. अतः न अभावसाध्यकव्यभिचारिण्यतिप्रसङ्गः (दीधि० २ पृ० ४१)।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org