________________
न्यायकोशः ।
८३७ तावच्छेदकरूपावच्छिन्ना यावन्त्यः प्रतियोगिताः प्रत्येकं तत्तदवच्छेदकावच्छिन्नतदाश्रयनिष्ठप्रतियोगितावच्छेदकताकभेदाधिकरणवृत्तित्वत्वव्यापकप्रतियोगिताकतत्प्रतियोगितानिरूपकाभावसजातीयाभाववत्त्वम् इति समुदितार्थः ( ग० चतु० पृ० ४२ ) । अत्र साजात्यं च समानासमानाधिकरणधर्मावच्छिन्न प्रतियोगिताकत्वान्यतररूपेण ग्राह्यम् ( दीधि० २
पृ० १७)। (१७) यावन्तस्तादृशाः साध्याभावाः प्रत्येकं तेषां सजातीयस्य व्यापकीभूतस्य व्याप्यवृत्तेरभावस्य प्रतियोगितावच्छेदकेन धर्मेण यद्रूपावच्छिन्नं प्रति व्यापकत्वमवच्छिद्यते तद्रूपवत्त्वम् । (१८) यावन्तस्तादृशाः साध्याभावाः प्रत्येकं तत्प्रतियोगितावच्छेदकेन धर्मेण यद्रूपावच्छिन्नं प्रति व्यापकत्वमवच्छिद्यते तद्रूपवत्त्वं वा । (१९) परे तु वृत्तिमद्वृत्तयो यावन्तः साध्याभाववद्वृत्तित्वाभावाः तद्वत्त्वम् इत्याहुः । इदं लक्षणं च कूटा घटितलक्षणम् इत्युच्यते ( ग० चतु० पृ० ४७) । ( २० ) अन्ये तु वृत्तिमद्वृत्तयो यावन्तः साध्याभावसमुदायाधिकरणवृत्तित्वाभावाः तद्वत्त्वम् इत्याहुः । इदं लक्षणं तु कूटघटितलक्षणम् इत्युच्यते ( ग० चतु० पृ० ५२) । ( २१ ) साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकरूपावच्छिन्न प्रतियोगिताकव्याप्यवृत्तिस्वसमानाधिकरणयावदभावाधिकरणवृत्तित्वाभावा वृत्तिमद्वृत्तयो यावन्तः तद्वत्वम् ( दीधि० २ चतुर्दशल० पृ० १४-२१ ) । इदं लक्षणं तु पुच्छलक्षणम् इत्युच्यते इति विज्ञेयम् । यथा अन्वयव्यतिरेकिणि पर्वतो वह्निमान्धूमादित्यादौ केवलान्वयिसाध्यकस्थले इदं वाच्यं ज्ञेयत्वादित्यादौ केवलव्यतिरेकिणि पृथिवी इतरेभ्यो मिद्यते गन्धवत्त्वादित्यादौ च सद्धेतौ धूमादिहेतुनिष्ठा वह्नयादिसाध्यनिरुपिता व्याप्तिः । पर्वतो वह्निमानित्यत्र घटत्वावच्छिन्नप्रतियोगिताकवह्नयभाववह्नित्वावच्छिन्नप्रतियोगिताकघटाभाव घटत्वाद्यवच्छिन्नप्रतियोगिताकवृत्तित्वाभावाद्यात्मकान् व्यधिकरणधर्मावच्छिन्नाभावान् यथायथमादाय पूर्वोक्तानां सर्वेषां चतुर्दशलक्षणानां समन्वयः कर्तव्यः । इदं वाच्यमित्यत्र च समवायित्वावच्छिन्नप्रतियोगिताकवाच्यत्वाभावज्ञेयत्वत्वावच्छिन्नप्रतियोगिताकवाच्यत्वाभाव घटत्वाद्यवच्छिन्नप्रतियोगिताकवृत्तित्वाभावा
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org