________________
८३४
न्यायकोशः। व्याप्तिग्रहस्तु ब्राह्मणो न हन्तव्यः गौर्न पदा स्पष्टव्या इति । अत्र दृष्टान्तापेक्षा नास्ति । अत्रेदं बोध्यम् । कार्य कारणमात्रमनुमापयति । कारणं तु समग्रमेव कार्यम् ( प्र० प० पृ० १४-१६) इति । तत्र पूर्वपक्षीयान्वयव्याप्तिश्च ( १ ) साध्याभाववदवृत्तित्वम् । ( २ ) साध्यवद्भिन्नसाध्याभाववदवृत्तित्वम् । ( ३ ) साध्यवत्प्रतियोगिकान्योन्याभावासामानाधिकरण्यम् । ( ४ ) सकलसाध्याभाववन्निष्ठाभावप्रतियोगित्वम् । (५) साध्यवदन्यावृत्तित्वं वा ( चि० २ पृ० २ )। यथा पर्वतो वह्निमान् धूमादित्यादौ वङ्रत्यन्ताभाववति वह्निमद्भिन्ने वा जलादौ धूमो नास्ति इति धूमादौ वढेाप्तिः । अत्र प्रथमलक्षणस्य साध्यतावच्छेदकसंबन्धावच्छिन्नसाध्यतावच्छेदकावच्छिन्नप्रतियोगिताकप्रतियोगिव्यधिकरणसाध्याभावाधिकरणनिरूपितहेतुतावच्छेदकसंबन्धावच्छिन्नवृत्तित्वत्वावच्छिन्नप्रतियोगिताकाभावः इति समुदितार्थः । अत्र प्रतियोगिवैयधिकरण्यं च प्रतियोगितावच्छेदकसंबन्धावच्छिन्नप्रतियोगितावच्छेदकावच्छिन्नवैयधिकरण्यं विज्ञेयम् ( न्या० बो० २ पृ० १४)। एतानि च पञ्च अव्यभिचरितत्वपदप्रतिपाद्यानि व्याप्यलक्षणानि व्याप्तिस्वरूपाणि च पञ्चलक्षणी इति नैयायिकैर्व्यवह्रियन्ते। द्वितीयलक्षणे साध्यवद्भिन्ने वर्तमानः यः साध्याभावः तद्वदवृत्तित्वम् इति विग्रहो ज्ञेयः। अत्र लक्षणे कर्मादौ संयोगाद्यभावस्य भिन्नत्वे मानाभावात् अव्याप्तिः। अतो द्वितीयलक्षणे अस्वारस्यमास्थाय तृतीयलक्षणमुक्तं साध्यवत् इति । अत्र तृतीये लक्षणेपि हेतोः साध्यवत्पक्षभिन्नदृष्टान्तवृत्तित्वेनाव्याप्तेश्चतुर्थमुक्तं सकलेति । साकल्यं साध्याभाववति साध्ये च विशेषणं बोध्यम् । साध्याभावो वा साध्यतावच्छेदकावच्छिन्नप्रतियोगिताको ग्राह्यः । तेन विपक्षैकदेशनिष्ठाभाक्प्रतियोगिनि व्यभिचारिणि नातिव्याप्तिः । न वा नानाव्यक्तिसाध्यकसद्धेतावव्याप्तिः । चतुर्थलक्षणानास्थायां कारणं तु यत्रैकव्यक्तिकं साध्यं विपक्षो वा तत्र निर्धूमत्वादिव्याप्ये तत्त्वेन साध्ये निर्वह्नित्वादौ चाव्याप्तिः। तत्र हेत्वभावस्य वह्नयादेः प्रत्येकं यावद्विपक्षावृत्तित्वात् । अतः पञ्चममुक्तं साध्यवत् इति । (दीधि०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org