________________
न्यायकोशः। २ पृ० ११-१२)। साध्यतावच्छेदकसंबन्धावच्छिन्नं यत्साध्यवत्त्वं तदवच्छिन्नप्रतियोगिताकस्यान्योन्याभावस्य स्वप्रतियोगितावच्छेदकवत्त्वबुद्धिविरोधिताघटकसंबन्धेन यदधिकरणम् तन्निरूपितहेतुतावच्छेदकसंबन्धावच्छिन्नवृत्तितानवच्छेदकहेतुतावच्छेदकधर्मवत्त्वम् इति समुदितार्थः (वै० वि० ३।१।१४ ) (मु० २ )। (६) साध्यासामानाधिकरण्यानधिकरणत्वम् । तस्य निष्कृष्टार्थस्तु साध्यनिष्ठाधेयत्वानिरूपकाधिकरणत्वव्यापकाभावप्रतियोग्यधिकरणतासामान्यकत्वम् इति । तेन सत्तावान् द्रव्यत्वादित्यादौ न दोषः ( दीधि० २ पृ० १३ )। इदं लक्षणं सिंहलक्षणम् इत्युच्यते । (७) साध्यवैयधिकरण्यानधिकरणत्वम् ( चि० २ पृ० २)। इदं लक्षणं व्याघ्रलक्षणम् इत्युच्यते । एतावन्ति सप्त लक्षणान्यन्वयव्यतिरेकिकेवलव्यतिरेकिणोर्हेत्वोर्लक्षणानि । न तु केवलान्वयिनो हेतोः । तत्र साध्याभावाद्यप्रसिद्धः । अग्रिमलक्षणानि तु केवलान्वयिसाधारणान्यपि इति बोध्यम् । (८) यत्समानाधिकरणाः साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकप्रतियोगिताका यावन्तः अभावाः प्रतियोगिसमानाधिकरणाः तत्त्वम् । साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदिका या या प्रतियोगिता तत्तदाश्रयसामानाधिकरण्यं यत्र कचिद्यावदधिकरणान्तर्भावेन तत्त्वम् इति समुदितार्थः (ग० चतु०)। अत्र यावन्तः अभावाः इत्यनेन केवलान्वयिनि वाच्यत्वादौ साध्ये समवायितया वाच्यत्वाभावम् वह्निमान् धूमादित्यादौ तु घटत्वेन वह्नयभावादिकं व्यधिकरणधर्मावच्छिन्नाभावमादाय लक्षणसमन्वयः कर्तव्यः इति विज्ञेयम् । इदं लक्षणं च दीधितिकृता स्वयं कृतम् इति प्रथमं स्वलक्षणम् इत्युच्यते । एतल्लक्षणमारभ्य चतुर्दशलक्षणानि सौन्दडोपाध्यायाभिमतव्यधिकरणधर्मावच्छिन्नाभावाभिप्रायकाणि चतुर्दशलक्षणीसंज्ञकानि च भवन्ति इति बोध्यम् । (९) यत्समानाधिकरणानां साध्यतावच्छेदकावच्छिन्नव्यापकतावच्छेदकरूपावच्छिन्नप्रतियोगिताकानां यावदभावानां प्रतियोगितावच्छेदकावच्छिन्नसामानाधिकरण्यम् तत्त्वं वा । अत्र केवलान्वयिसाध्यकस्थले ज्ञेयत्वत्वादिना वाच्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org