________________
न्यायकोशः। रूपसाध्यस्य खपुष्पशशशृङ्गादिवत्तुच्छत्वाभावेन हेतुव्यापकसाध्यसामानाधिकरण्यग्रहोत्पत्तौ बाधकाभावः इति । सा व्याप्तिः द्विविधा अन्वयव्याप्तिः व्यतिरेकव्याप्तिश्च । तत्रान्वयव्याप्तिरपि द्विविधा पूर्वपक्षव्याप्तिः सिद्धान्तसिद्धव्याप्तिश्चेति। उभयविधान्वयव्याप्तिज्ञाने व्यभिचारज्ञानाभावः सहचारज्ञानं च कारणम् । व्यतिरेकव्याप्तिज्ञाने तु साध्याभावे हेत्वभावस्य साहचर्यज्ञानं व्यभिचारज्ञानाभावश्च कारणम् इति विवेकः (भा० प० श्लो० १३८ )। व्याप्तिग्रहस्तु नानाव्यक्तिसाध्यहेतुकस्थले वह्निमान् धूमादित्यादौ सामान्यलक्षणप्रत्यासत्त्या सकलवह्निधूमादिविषयको जन्यते ( चि० २ पृ० १७ ) । अत्राहुः। व्याप्तिग्राहकं तु उपाध्यभावग्रहणजनितसंस्कारसहकृतेन भूयोदर्शनजनितसंस्कारसहकृतेन साहचर्यग्राहिणा प्रत्यक्षेणैव व्याप्तिरवधार्यते ( त० भा० पृ० १०)। अथ वा व्यभिचारज्ञानविरहसहकृतं हेतुसाध्यसहचारदर्शनं व्याप्तिग्राहकं भवति । व्यभिचारज्ञानं च निश्चयः शङ्का वा । सा च कचिदुपाधिसंदेहात् क्वचिद्विशेषादर्शनसहितसाधारणधर्मदर्शनादुत्पद्यते । तद्विरहश्च कचिद्विपक्षबाधकतर्कात् कचित् स्वतःसिद्ध एव ( चि० २ पृ० १३-१४ ) ( त० कौ० २ ) ( त० दी० २)। यद्वा व्यभिचाराग्रहः सहचारग्रहश्च व्याप्तिग्रहे कारणम् । व्यभिचारग्रहस्य व्याप्तिग्रहे प्रतिबन्धकत्वात्तदभावः कारणम् । एवम् अन्वयव्यतिरेकाभ्यां सहचारग्रहस्यापि हेतुता । भूयोदर्शनं तु न कारणम् । व्यभिचारास्फूर्ती सकृद्दर्शनेपि कचिद्व्याप्तिग्रहात् । क्वचित् व्यभिचारशङ्काविधूननद्वारा भूयोदर्शनमुपयुज्यते । यत्र तु भूयोदर्शनादपि शङ्का नापैति तत्र विपक्षबाधकतर्कोपेक्षितः । तथा हि वह्निविरहिण्यपि धूमः स्यात् इति यद्याशङ्का भवति तदा सा वह्निधूमयोः कार्यकारणभावस्य प्रतिसंधानानिवर्तते । यद्ययं वह्निमान्न स्यात्तदा धूमवान्न स्यात् कारणं विना कार्यानुत्पत्तेः (मु०) इति । वेदान्तिनस्त्वत्राहुः । प्रत्यक्षं व्याप्तिग्राहकम् । तथा च साहचर्यग्राहिणः प्रत्यक्षस्य भूयोदर्शनव्यभिचारादर्शनोपाध्यभावनिश्चयाः सहकारिणः । एवमनुमानागमावपि व्याप्तिग्राहको । तत्रागमेन १०५ न्या०को
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org