________________
८३२
न्यायकोशः। धिकरण्यम् ( वै० उ० ३।१।१४ पृ० १५२ ) । अत्र गङ्गेशोपाध्याया आहुः एतादृशात्यन्ताभावासामानाधिकरण्यं यस्य तस्य तदेवानौपाधिकत्वम् इति ( चि० २ पृ० ८ )। [ख] स्वाभाविकः साध्यहेत्वोः संबन्धः ( त० भा० )। [ग] उपाधिविधुरः संबन्धः (सर्व० सं० पृ० ७ चार्वा० ) (ता. २० श्लो० १४ )। [घ] यद्विशिष्टसमानाधिकरणा यावन्तः साध्यसमानाधिकरणास्तद्वत्त्वम् (न्या०म० २ पृ० १६)। यथा इदं वाच्यं ज्ञेयत्वात् पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वात् पर्वतो वह्निमान् धूमात् इत्यादिषु केवलान्वयिकेवलव्यतिरेक्यन्वयव्यतिरेकिषु त्रिष्वपि हेतुषु तादृशाः संवन्धाः सन्तीति व्याप्तिसामान्यस्वरूपाणि संगच्छन्ते। भवति च धूमत्वविशिष्टसमानाधिकरणा यावन्तो धर्माः वह्निसमानाधिकरणा इति धूमे वह्निव्याप्तिः । न तु वह्नौ धूमस्य । न हि वह्नित्वविशिष्टसमानाधिकरणा यावन्तो धूमसमानाधिकरणा भवन्ति अयःपिण्डत्वस्य वह्नित्वविशिष्टसमानाधिकरणस्य धूमासमानाधिकरणत्वात् । अस्ति चेदं केवलान्वयिनि । अभिधेयत्वविशिष्टसमानाधिकरणानां यावतां ज्ञेयत्वसमानाधिकरणत्वात् (न्या० म० २ पृ० १६)। अन्वयव्यतिरेकव्याप्तिसाधारणं व्याप्तित्वं तु हेतुतावच्छेदकनिष्ठप्रकारताभिन्ना यानुमितिजनकतावच्छेदकतावच्छेदकीभूता प्रकारता तद्वत्त्वम् इति। तथा हि केवलान्वयिस्थले इदं वाच्यं ज्ञेयत्त्रादित्यादौ उक्तलक्षणघटकतादृशप्रकारता च हेतुव्यापकसाध्यसामानाधिकरण्यनिष्ठा निरूप्यनिरूपकभावापन्ना प्रकारता भवति । अन्वयव्यतिरेकिस्थले वह्निमान धूमादित्यादौ तादृशी प्रकारता तु हेतुव्यापकसाध्यसामानाधिकरण्यनिष्ठप्रकारता साध्याभावव्यापकीभूताभावप्रतियोगित्वनिष्ठप्रकारता च भवति । केवलव्यतिरेकिस्थले पृथिवी इतरेभ्यो भिद्यते गन्धवत्त्वादित्यादौ जीवच्छरीरं सात्मकं प्राणादिमत्त्वादित्यादौ चाप्रसिद्धसाध्यकस्थलेपि तादृशी प्रकारता च हेतुव्यापकसाध्यसामानाधिकरण्यनिष्ठप्रकारता भवति इति सर्वत्र व्याप्तौ लक्षणसमन्वयो बोध्यः । अत्र हृदयम् । साध्याप्रसिद्धावपि अनुमितेः पूर्व पक्षातिरिक्ते यत्किचिदधिकरणे साध्यनिश्चयाभावेपि सात्मकत्वादि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org