________________
न्यायकोशः।
८२५ व्यर्थविशेषणत्वम्-विशेषणं विनापि यत्र व्याप्तिग्रहः तत्र व्यर्थविशेषण
त्वम् । यथा वह्निमान् नीलधूमात् कालो नित्यः शरीराजन्यत्वादित्यादौ व्यर्थविशेषणत्वम् ( चि० १ निर्वि० पृ० ८२१)। इदं च व्याप्यत्वा
सिद्धिरूपे हेत्वसिद्धौ वा हेत्वाभासेन्तर्भवति इति विज्ञेयम् । व्यवधानम्-१ यत्किंचिद्वस्तूत्तरत्वविशिष्टं वस्त्वन्तरपूर्वत्वम्। तच्च द्विविधम्
दैशिकम् कालिकं चेति । अन्ये तु २ द्रव्यान्तरेण द्रव्यान्तरस्याच्छादनम्
इत्याहुः ( हेमच०)। व्यवसायः-१ ज्ञानविषयीभूतं ज्ञानम् । पूर्वज्ञानम् इति यावत् । यथा
व्यवसायात्मकं प्रत्यक्षम् ( गौ० १११।४ ) इत्यादौ । अत्र घटचाक्षुषप्रत्यक्षानन्तरं जायमानेन घटं साक्षात्करोमि इत्यनुव्यवसायेन गम्यो घटसाक्षात्कारः सविकल्पकज्ञानरूपः व्यवसायः । अत्र भाष्यम् । सर्वत्र प्रत्यक्षविषये ज्ञातुरिन्द्रियेण व्यवसायः । पश्चात् मनसा अनुव्यवसायः। उपहतेन्द्रियाणामनुव्यवसायाभावात् ( वात्स्या० १।१।४ ) इति । एवमनुमानादिविषयेपि स्वयमूह्यम्। २ काव्यज्ञास्तु उद्यमः (रघु० ८।६५)।
यथा किं दूरं व्यवसायिनाम् इत्यादी इत्याहुः । व्यवस्था—मर्यादा । सा च कचित् शास्त्रविहितस्य विषयान्तपरिहारेण विषयविशेषे स्थापनम् । वैयाकरणास्तु स्वाभिधेयापेक्षावधिनियम इत्याहुः ( सि० को०)। तदर्थश्च दिग्देशकालैरवधिनियमरूपा व्यवस्था इति ।
व्यवस्थायां च सर्वनामता भवति । व्यवस्थितत्वम्-[क] अयोगान्ययोगाभ्यां परिच्छेदः । यथा व्यवस्थितः
पृथिव्यां गन्धः ( वै० २।२।२ ) इत्यादौ पृथिव्यां गन्धस्य व्यवस्थितत्वम् । भवति हि पृथिवी गन्धवत्येव पृथिव्येव गन्धवती इति ( वै० उ० २।२।२ )। यथा वा व्यवस्थितविकल्पः इत्यादौ । [ख] बाधका
भावादवधारणम् (वै० वि० २।२।२ )। व्यवहारः- १ [क ] शब्दप्रयोगः ( न्या० बो० १ पृ० ६ )। यथा
व्यवहरन्ति जना इत्यादौ । [ख] बुबोधयिषापूर्वकवाक्यप्रयोगः । 1. न्या. को.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org