________________
८२४
न्यायकोश। • शङ्काविरहः कचित् तर्कात् कचित् स्वतःसिद्ध एव इति (सि० च० २ : पृ० २४ ) ( त० दी० २ पृ० २१)। तत्र तर्कादित्यस्य तर्काभावेतर
निखिलकारणसमवधानस्थले इत्यर्थः। स्वतःसिद्ध एवेत्यस्य इतरकारणविरहस्थले तादृशकारणविरहप्रयुक्त एवेत्यर्थः ( नी० २ पृ० २१ )। २ कार्य- कारणभावभङ्गः। अयं व्यभिचारो द्विविधः अन्वयव्यभिचारः व्यतिरेक. व्यभिचारश्च । तत्राद्यः कारणसत्त्वे कार्याभावात् । द्वितीयः कार्यसत्त्वे कारणाभावात् (ग०)। ३ धर्मज्ञास्तु निन्दिताचारः । यथा पत्नी पत्युर्धनहारिणी या स्यादव्यभिचारिणी इत्यादी. जारकर्म व्यभिचारः इत्याहुः ( मिताक्ष० कात्याय० पृ० ७५ )। अत्र विशेष उच्यते हृताधिकारां मलिनां पिण्डमात्रोपजीविनीम् । परिभूतामधःशय्यां वासयेव्यभि• चारिणीम् । ( याज्ञ० अ० १ श्लो० ७० ) इति । व्यभिचारी-१ व्यभिचारवान् । २ आलंकारिकास्तु रसप्रादुर्भावाङ्ग
भूतनिर्वेदादिः संचारिभाषः इत्याहुः । तदुक्तम् विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । स्थायिन्युन्ममृनिर्मग्नास्त्रयस्त्रिंशञ्च तद्भिदाः ॥ ( सा० द० परि० ३ श्लो० १४० ) इति । तदर्थश्च स्थिरतया वर्तमाने हि रत्यादौ निर्वेदादयः प्रादुर्भावतिरोभावाभ्यामाभिमुख्येन चरणाव्यभिचारिणः कथ्यन्ते इति । ते के इत्याह निर्वेदावेगदैन्यश्रममदजडता औय्यमोहौ विबोधः स्वप्नापस्मारगर्वा मरणमलसतामर्षनिद्रावहित्थाः । औत्सुक्योन्मादशङ्काः स्मृतिमतिसहिता व्याधिसंत्रासलज्जा हर्षासूया
विषादाः सधृतिचपलता ग्लानिचिन्तावितर्काः॥ ( सा० द० प० ३ .. श्लो० १४१ ) इति । एवम् रत्यादयोप्युपलक्षणतया ग्राह्याः ( सा० - द० प० ३ श्लो० १७२ )। व्यर्थत्वम्-१ स्वसमानाधिकरणावश्यक्लप्तधर्मान्तरघटितत्वम् । यथा - प्रमेयत्वविशिष्टसास्नादिमत्त्वस्य गोर्लक्षणत्वे वाच्ये व्यर्थत्वम्।अत्र केवल- सास्नादिमत्त्वेनैव गोर्लक्षणत्वनिर्वाहे अप्रयोजनकप्रमेयत्वपदार्थघटितस्य
प्रमेयत्वविशिष्टसास्नादिमत्त्वस्य वैयर्थ्यम् इति विज्ञेयम् । २ निष्फलत्वम् .. इति काव्यज्ञा आहुः।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org