________________
१८१६
न्यायकोशः। • यथा सर्वव्यवहारहेतुर्ज्ञानं बुद्धिः इत्यादी व्यवहारः (वाक्य० १ पृ०९)
(त० प्र० ४ पृ० १३३ )। [ग] तद्रूपावच्छिन्नबोधकशब्दः । यथा अयं गौः इति शब्दः । अत्रायं कार्यकारणभावो बोध्यः व्यवहारे व्यवहर्तव्यज्ञानं हेतुः इति (नील० १ पृ० ५) ( त० प्र०)। प्राभाकरास्तु व्यवहारे व्यवहर्तव्यतावच्छेदकासंसर्गाग्रह एव कारणम् न तु व्यवहर्तव्यतावच्छेदकप्रकारकं ज्ञानं कारणम् इत्याहुः (त० प्र० ख० ४ पृ० १३३ ) । तेन शुक्तौ इदं रजतम् इति व्यवहार उपपद्यते इति ज्ञेयम् । २ प्राञ्चो व्यवहारशास्त्रज्ञाः अन्यविरोधेन स्वसंबन्धितया कथनं व्यवहारः । वादिप्रतिवादिनोर्विवादः इत्यर्थः ( वीर० २ पृ० ४) । यथा कश्चित् इदं क्षेत्रादि मदीयम् इति कथयति । अन्योपि तद्विरोधेन मदीयम् इति इत्याहुः ( मिताक्ष० अ० २ श्लो० १ )। नव्यास्तु ऋणादानादिलौकिकार्थविषया कथा व्यवहारः इत्याहुः ( वीरमित्रो० अ० २ पृ० ३ )। अयं व्यवहारश्चतुष्पादः भाषापादः उत्तरपादः क्रियापादः साध्यसिद्धिपादश्चेति (मिता० )। कात्यायनहारीताभ्यां व्यवहारस्वरूपमुक्तम् । प्रयत्नसाध्ये विच्छिन्ने धर्माख्ये न्यायविस्तरे। साध्यमूलस्तु यो वादो व्यवहारः स उच्यते ॥ इति । अत्र निरुक्तिः कात्यायनेन कृता । वि नानार्थेऽव संदेहे हरणं हार उच्यते । नानासंदेहहरणाब्यवहार इति स्मृतः॥ (वीर० २ पृ० ६) इति । व्यवहारलक्षणं तु परस्परं मनुष्याणां स्वार्थविप्रतिपत्तिषु। वाक्यन्यायाब्यवस्थानं व्यवहार उदाहृतः ॥ ( मिताक्षरा० अ० २ श्लो० ८ )। ३ धर्मज्ञास्तु सहासनभोजनादिर्व्यवहारः। यथा न पतितैः संव्यवहारो विद्यते ( आपस्त० धर्मसू० ७।२१।५ ) इत्यादौ इत्याहुः । ४ लोकयात्रा इति
लौकिकजना आहुः । व्यवहारपदम् –व्यवहारविषयः । यथा व्यवहारशास्त्रे ऋणादानादीन्यष्टादश
व्यवहारपदानि । तल्लक्षणमुक्तं याज्ञवल्क्येन स्मृत्याचारव्यपेतेन
मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् ।। | (याज्ञ० स्मृ० अ० २ श्लो० ५) इति । तथा च प्रतिज्ञोत्तरसंशय
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org