________________
८१९
न्यायकोशः। कारणम् इति वदन्ति । मध्वाचार्यानुयायिनोप्याहुः । व्यतिरेकव्याप्तिः प्रकृतसाध्यसिद्धावनुपयोगान्न स्वीकर्तव्या । जीवच्छरीरं सात्मकं प्राणादिमत्त्वादित्यादौ केवलव्यतिरेकित्वेन प्रसिद्ध हेतावप्यन्वयव्याप्तिरेव । यद्यप्यन्वयव्याप्तिदृष्टान्तानुपलम्भान्न युक्ता तथाप्यनुमानेन तां साधयितुं व्यतिरेकव्याप्तिरुपन्यस्यते । तथा हि । प्राणादिमत्त्वं सात्मकत्वेन व्याप्तम् । तदभावव्यापकाभावप्रतियोगित्वात् । यद्यदभावव्यापकाभावप्रतियोगि तत्तेन व्याप्तम् यथा धूमवत्त्वमग्निमत्त्वेन इति (प्र० प० पृ० १८ ) ( ग० सामा० ) ( कु० ३)। पर्वतो वह्निमान् धूमादित्यादौ वह्नयभावव्यापकीभूताभावप्रतियोगित्वरूपा यत्र वह्निर्नास्ति तत्र धूमो नास्ति यथा महाह्रदः इति धूमे वह्नेर्व्यतिरेकव्याप्तिः । पृथिवी इतरेभ्यो जलादिभ्यः भिद्यते गन्धवत्त्वादित्यादौ केवलव्यतिरेकिणि इतरत्वव्यापकीभूताभावप्रतियोगित्वरूपा यदितरभिन्नं न भवति न तद्गन्धवत् यथा जलादि इति व्यतिरेकव्याप्तिः (त० सं० )। अत्र जलादित्रयोदशान्योन्याभावानां त्रयोदशसु प्रत्येकं प्रसिद्धानां कूटं पृथिव्यां साध्यते। तत्र त्रयोदशत्वावच्छिन्नभेदस्यकाधिकरणवृत्तित्वाभावान्नान्वयित्वासाधारण्ये । प्रत्येकाधिकरणप्रसिद्ध्या साध्यविशिष्टानुमितिः व्यतिरेकव्याप्तिनिरूपणं च इति सर्व सुस्थम् (त० दी० ख० २ पृ० २४)। अयं भावः। अनुमितेः पूर्व निश्चितसाध्यतावच्छेदकावच्छिन्नवन्तो धर्मिण एवाप्रसिद्धाः न तत्र हेतोः सत्त्वासत्त्वनिबन्धने अन्वयित्वासाधारण्ये । तथा प्रत्येकं प्रसिद्धौ अपेक्षाबुद्धि विशेषविषयत्वरूपसमुदायत्वविशिष्टज्ञानं 'संभवति । तथा च विशेषणतावच्छेदकप्रकारकनिर्णयस्य सद्भावात् साध्यतावच्छेदकविशिष्टवैशिष्ट्यावगाह्यनुमितिः व्यतिरेकव्याप्तिज्ञानं च संभवति (नील० पृ. २३-२४ ) इति । अत्र इतरभेदाभावात्मकस्य साध्याभावस्य अन्योन्याभावाभावस्य स्वप्रतियोगिभेदप्रतियोगितावच्छेदकस्वरूपत्वम् इति नियमादितरत्वस्वरूपत्वम् इति बोध्यम् । जीवच्छरीरं सात्मकम् प्राणादिमत्त्वात् इत्यादावप्रसिद्धसाध्यककेवलव्यतिरेकिणि हेतौ सात्मकत्वाभावव्यापकाभावप्रतियोगित्व
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org