________________
८१८
न्यायकोशः। पृ० २१ )। तच्च ज्ञानम् प्राचीनमते असाधारणधर्मवत्ताज्ञानविधया कोटिद्वयोपस्थापकतया फलीभूतसंशयं प्रति प्रयोजकम् इति विज्ञेयम् । यथा अनैकान्तिके अन्वयाव्यतिरेकाद्वा कोटयुपस्थापकतया संशयः फलम् ( चि० २ सत्प्र. ) इत्यादिग्रन्थे धूमवान्वह्नः इत्यादी धूमधूमाभाववढ्यावृत्तवह्निमान् इति ज्ञानं व्यतिरेकः । ७ सजातीयाधिक्यम् । यथा वैश्येभ्यः क्षत्रियाः शूराः शूद्रेभ्यो धनिनो विशः इत्यत्र पञ्चम्यर्थो व्यतिरेकः । अत्र वैश्यशौर्यादधिकशौर्यवन्तः क्षत्रियाः शूद्रधनादधिकधनवन्तो वैश्याः इत्यर्थो बोध्यते ( श० प्र० श्लो० ९३ पृ० १२८ )।
८ विना इत्यस्यार्थः। ९ अर्थालंकारविशेषः इत्यालंकारिका आहुः । . १० विशेषणातिक्रमः इति काव्यज्ञा आहुः । ध्यतिरेकदृष्टान्तः—वैधर्म्य दृष्टान्तः। व्यतिरेकव्यभिचारः-( कार्यकारणभावभङ्गलक्षणो व्यभिचारः) कार्य
सत्त्वे कारणाभावः ( ग० )। तदर्थश्च कार्याव्यवहितपूर्वक्षणावच्छेदेन कार्यतावच्छेदकावच्छिन्नयत्किचिव्यक्त्यधिकरणयावद्व्यक्तिषु कारणाभाववत्त्वम् ( दि० गु० )। अथ वा कार्याव्यवहितपूर्वक्षणावच्छेदेन कार्यप्रदेशे कारणाभावः (त० प्र० ख० ४ पृ० १२९ )। यथा तर्कदीपिकायाम् समाप्तिं प्रति मङ्गलस्य कारणत्व उक्ते किरणावल्यादावाशङ्कितो व्यभिचारो व्यतिरेकव्यभिचारो भवति । तथा हि किरणावल्याख्य
नास्तिकग्रन्थविशेषे समाप्तिरूपकार्यसत्त्वेपि मङ्गलस्याभावः इति । व्यतिरेकव्याप्तिः-( व्याप्तिः ) [क] साध्याभावव्यापकीभूताभावप्रति
योगित्वम् ( मु० २) ( नील० २ पृ० २३ ) (न्या० बो० २ पृ० १५)। व्यतिरेकः साध्याभावहेत्वभावयोः साहचर्यम् । तत्प्रयोज्या व्याप्तिर्व्यतिरेकव्याप्तिः इति व्यतिरेकव्याप्तिशब्दः संगमनीयः ( सि० च० २ पृ० २६ )। यद्वा व्यतिरेकेण व्याप्तिः इति विग्रहः । व्यतिरेकनिरूपिता व्याप्तिरित्यर्थः ( कु० ३ )। आचार्यास्तु व्यतिरेकसहचारेणान्वयाव्याप्तिरेव गृह्यते । न च व्यतिरेकव्याप्तिज्ञानमपि अनुमितौ
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org