________________
न्यायकोशः। प्राणवियोगवती विलक्षणशब्दप्रयोक्तृत्वात् इत्यादिरूपः ( नील० ४ पृ० ३० )। अत्रेदं बोध्यम् । तात्पर्यानुपपत्तिरेव लक्षणाबीजम् । तथा च गच्छ गच्छसि इत्यत्रापि मा गाः इत्यर्थे गमनाभावप्रतीतीच्छयोच्चरितत्वरूपतात्पर्यमात्रमुन्नीयते संभाव्यते वा। तेन लक्षणया तत्र शाब्दबोधोपपत्तौ व्यञ्जनाया वृत्त्यन्तरत्वं नास्त्येव (त० प्र० ख० ४ पृ० ६९) इति। एवम् वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ( काव्यप्रका० उ० २ श्लो० ४ टी० ) इत्यादावप्यूह्यम् । [ख] वैयाकरणास्तु मुख्यार्थबाधाहनिरपेक्षबोधजनको मुख्यार्थसंबद्धासंबद्धसाधारणः प्रसिद्धाप्रसिद्धार्थविषयको वक्रादिवैशिष्टयज्ञानप्रतिभायुद्बुद्धः संस्कारविशेषः इत्याहुः ( ल० म० आकाङ्क्षादिवि० पृ० १७-१८)। व्यतिरेकः-१ अभावः । [क] अत्यन्ताभावः (न्या० बो० २ पृ०
१५ ) ( वाक्य० २ पृ० १५)। यथा पदस्य पदान्तरव्यतिरेकप्रयुक्तान्वयाननुभावकत्वमाकाङ्क्षा इत्यादौ । यथा वा अन्वयेन व्यतिरेकेण च व्याप्तिमत् (त० सं०) इत्यादौ व्यतिरेकः अभावः । यथा वा स्वव्यतिरेकेण धूमव्यतिरेकानुमानात् इत्यादौ व्यतिरेकः अभावः (म० प्र० २ पृ० ३०-३१ ) ( वै० ५।१।३ )। [ख] भिन्नत्वम् । यथा यतस्तव्यतिरेकेण नान्यत्किचिदिहाप्यते इत्यादौ । २ साध्याभावहेत्वभावयोः साहचर्यम् । यथा व्यतिरेकव्याप्तिः इत्यादी व्यतिरेकः ( सि० च० २ पृ० २६ )। ३ क्वचित् व्यतिरेकव्याप्तिः । यथा अन्वयव्यतिरेकि लिङ्गम् इत्यादौ व्यतिरेकः ( वाक्य० २ पृ० १५)। ४ [क] कारणाभावकार्याभावयोः साहचर्यम् । [ख] कारणाभावाधिकरणे कार्यासत्त्वम् ( राम० १ पृ० ५२ )। यथा यदभावे यदभावः इति । स यथा चक्रचीवरादिघटितस्य दण्डस्यासत्त्वे घटस्यासत्त्वम् इति व्यतिरेकः । अयं व्यतिरेकः कारणत्वग्रहजनकः इति ज्ञेयम् (त० प्र०मङ्गल. पृ० १ )। ५ अत्यन्ताभावप्रतियोगित्वम् । तदर्थस्तु यस्यात्यन्ताभावः प्रसिद्ध्यति तत्त्वम् इति । यथा व्यतिरेकिसाध्यकस्थले वह्निमानित्यादौ वह्नय॑तिरेकः । ६ क्वचित् निश्चितकोटिद्वयवव्यावृत्तत्वज्ञानम् (ग० सत्प्र० १०३ न्या० को.. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org