________________
न्यायकोशः। (काव्यप्र० उ० २ श्लो० १८ वृ०)। अर्थनिष्ठा व्यञ्जना तु गतोस्तमर्कः इत्यादौ । माए घरोवअरणम् ( का० प्र० २।६ ) इत्यादौ च विज्ञेया। आलंकारिकैर्हि अभिधालक्षणयोरिव व्यञ्जनाया अपि वृत्त्यन्तरमगत्या स्वीक्रियते। तथा हि । गङ्गातीरे घोषः इति प्रयोगे स्वायत्ते सत्यपि गङ्गायां घोषः इत्यनन्विताभिधानं शैत्यपावनत्वादिप्रतिपत्त्यर्थम् इत्यङ्गीकर्तव्यम् । न च सा प्रतीतिर्लक्षणायाप्युपपद्यते । केवलतीरलक्षणयैवानुपपत्तिपरिहारे शैत्यपावनत्वादिविशिष्टलक्षणायां मानाभावात् । मुख्यार्थबाधादित्रयाभावात् । तस्मात् शैत्यपावनत्वादिप्रतिपत्त्यर्थं व्यञ्जना आवश्यकी। एवम् गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भूयाद्यत्र गतो भवान् ॥ इत्यत्रापि तव गमने मम मरणं भविता इत्यतः त्वं मा गाः इति व्यज्यते इति व्यञ्जनाख्यातिरिक्ता वृत्तिरवश्यमङ्गीकर्तव्या इति (काव्यप्रकाश उल्ला० २ श्लो० १४-२०)(त० प्र० ४ पृ० ६९) (नील० ख० ४ पृ०३०)। नैयायिकास्तु तन्न सहन्ते। तथा हि । व्यञ्जना शक्तौ लक्षणायां चान्तर्भवति । अत्रायं भावः । सा व्यञ्जना शब्दशक्तिमूला अर्थशक्तिमूला चेति द्विविधा । तत्र शब्दशक्तिमूला यथा नानार्थकस्थले दूरस्था भूधरा रम्या इत्यादौ भूधरशब्देन पर्वतानामिव राज्ञामपि शक्त्यैव प्रतीतिः संभवति इत्यत्रया आलंकारिकमतप्रसिद्धा अभिधामूला शाब्दी व्यञ्जना शक्तावन्तर्भवति । एवम् भद्रात्मनः इत्यादावपि ज्ञेयम् । गङ्गायां घोषः इत्यादौ तु शैत्यपावनत्वादिविशिष्टतीरप्रतीतिरपि लक्षणासाम्राज्यादेव संभवति । तत्र लक्षणाकल्पिकायास्तात्पर्यानुपपत्तरेव सद्भावात् किमतिरिक्तव्यञ्जनया इत्यत्रत्या आलंकारिकमतप्रसिद्धा लक्षणामूला शाब्दी लाक्षणिकपर्यायपरिवृत्त्यसहत्वलक्षगा व्यञ्जना लक्षणायामन्तर्भवति । अर्थशक्तिमूला लक्षणा यथा गच्छ गच्छसि इत्यादौ । अत्र हे प्रिय तव गमनोत्तरं मे प्रागवियोगो भविष्यति अतस्त्वया न गन्तव्यम इत्याद्यर्थोनुमानादिना गम्यते इत्यत्रत्या आलंकारिकनत प्रसिद्धा आर्थी व्यञ्जना अनुमानेन्तर्भवति ( नील० ख० ४ पृ० ३० ) इति । तत्रानुमानप्रकारस्तु इयं मदीयगमनोत्तरकालिक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org