________________
न्यायकोशः। व्यङ्गयः-१ बोध्यः। २ प्रकाश्यः । ३ आलंकारिकास्तु व्यञ्जनाख्यया
वृत्त्या वोध्योर्थः । यथा गङ्गायां घोषः इत्यादौ शैत्यपावनत्वादिरूपोर्थो
गङ्गापदव्यङ्गयः इत्याहुः । अत्र शिष्टं च व्यञ्जनशब्दे दृश्यम् । व्यञ्जकम्-१ ज्ञानजनकम् । यथा चक्षुस्तैजसम् परकीयस्पर्शायव्यञ्जकत्वे
सति परकीयरूपव्यञ्जकत्वात् प्रदीपवत् ( मु० १ तेजोनि० पृ० ७९) इत्यादौ चक्षु रूपव्यञ्जकम्। २ नर्तकास्तु प्रकाशकम् । यथा हृद्गतभावादेय॑ञ्जकः ( प्रकाशकः ) हस्तचेष्टादिरूपोभिनयः इत्याहुः । ३ आलंकारिकाश्च व्यञ्जनया वृत्त्या अर्थबोधकः शब्दः । यथा गङ्गायां घोषः इत्यादौ गङ्गाशब्दः शैत्यपावनत्वादेरर्थस्य व्यञ्जकः इत्याहुः। शिष्टं तु
व्यञ्जनशब्दव्याख्याने दृश्यम् । व्यञ्जनम्-१ ज्ञानम् । यथा चक्षुषां रूपव्यञ्जनम् इत्यादौ । २ पाक
शास्त्रज्ञास्तु ओदनभोजनोपकरणम् । यथा सूपशाकादि व्यञ्जनम् इत्याहुः । अत्रार्थे विशेषेणाज्यते ( वि अङ्ग् ल्युट ) इति व्यञ्जनशब्दस्य व्युत्पत्तिद्रष्टव्या। ३ वैयाकरणाश्च अर्धमात्राकालेनोच्चार्यो हलवर्णः। यथा व्यञ्जनं चार्धमात्रकम् ( शिक्षा० ) इत्यादौ क् ख् इत्यादि इत्याहुः । ४ काव्यज्ञास्तु चिह्नम् । ५ अवयवश्च इत्याहुः । ६ [क] आलंकारिकास्तु इत्थं वदन्ति । शब्दस्य वृत्तिविशेषो व्यञ्जना । तदुक्तम् विरतास्वभिधाद्यासु यथार्थो बोध्यतेपरः । सा वृत्तिय॑ञ्जना नाम शब्दस्यार्थादिकस्य च ॥ ( सा० द० परि० २ श्लो० १२ ) इति । यथा भद्रात्मनो दुरधिरोहतनोविशालवंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोभूत् ।। (काव्यप्रका० उ० २ श्लो० १२ वृत्तौ ) इत्यादौ। आलंकारिकाणां मते व्यञ्जना च व्यञ्जनध्वननद्योतनगमनप्रत्यायनादिशब्दैर्व्यपदिश्यते । आलंकारिकैश्च व्यञ्जनाया इत्थं भेदाः प्रकल्पिताः । व्यञ्जना द्वेधा शब्द निष्ठा अर्थनिष्ठा च । आद्या तु द्वेधा अभिधामूला लक्षणामूला च । अभिधामूला यथा भद्रात्मनः इत्यादौ । लक्षणामूला यथा गङ्गायां घोषः इत्यादी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org